सर्म: 1 प्रसन्नकाण्डम् | युष्मन्मित्रपुत्रोऽङ्गदोऽप्यभेद्य इति दर्शयन्नाह - कृताभिषेको युवराजराज्ये सुग्रीवराजेन सुताविशेषम् । ताराविधेयेन कथं विकारं तारासुतो यास्यति राक्षसार्थम् ॥ ५० ॥ कृतेत्यादि- सुप्रीवराजेन ताराविधेयेन ताराचित्तानुवर्तिना | तारासुतो- ऽङ्गदः यौवराज्ये कृताभिषेकः सुताविशेषमिति क्रियाविशेषणम् । सुतनिर्विशेषं ममैवायं सुतो न वालिन इति । तत्कथं राक्षसाथै विकारं भेदं यास्यति नैवेत्यर्थः ॥ ५० ॥ अन्यसमाश्रयादपि रामेण विग्रहो न युज्यत इति दर्शयन्नाह - पश्यामि रामादधिकं समं वा नान्यं विरोधे यमुपाश्रयेम | दत्त्वा वरं साऽनुशयः स्वयम्भूरिन्द्राऽऽदयः पूर्वतरं विरुद्धाः ॥ ५९॥ पश्या मीत्यादि — रामाद्धिकं ज्यायांसं समानं वा न पश्यामि । यं विरोधे विग्रहनिमित्तमुपाश्रयेम आश्रयं गच्छेम | संप्रने लिङ् | स्वयंभूर्ब्रह्मा तावन्नां- श्रयः यतो वरं दत्त्वा सानुशय: विप्रतीसारवान् जातः । किमिदमकार्यमनुष्ठितं मयेति । इन्द्रादयस्तु पूर्वतरं विरुद्धाः ॥ ५१ ॥ । एवं दुर्गसमाश्रयोऽपि न युज्यत इति दर्शयन्नाह -- दुर्गाऽऽश्रितानां बहुनापि राजन् ! कालेन पाणिग्रहणाऽऽदिहेतुः । दुर्गौपरोधं न च कुर्वतोऽस्ति शत्रोश्चिरेणाऽपि दशाऽऽस्य ! हानिः ॥५२॥ (३४७) दुर्गेत्यादि-दुर्गाश्रितानामस्माकं दुर्गोंपरोधं कुर्वतः शत्रोर्बहुनापि कालेन हे राजन् ! पाणिग्रहणादेः । आदिशब्दादाटविकान्तपालादिप्रकोपस्य हेतु- नास्ति यशादुपरोधो न भविष्यति । अत्र स्थितानां क्षय एव केवलं मच शत्रोरुपराधं कुर्वतः चिरेणापि हानिः । युद्धशरीरोपयोगिनां सर्वदा सम्भवात् ।। ५२ ॥ शस्त्रं तरूवघरमम्बु पानं वृत्तिः फलैनो गजवाजिनार्यः । राष्टं न पश्चान्न जनोऽभिरक्ष्यः किं दुःस्थमाचक्ष्व भवेत्परेषाम् ॥५३॥ शस्त्रमित्यादि--तरवश्च उवधराश्चेति 'जातिरप्राणिम् ||४|| एकवद्भावः । तच्छस्रं न शूलखनादि । पानमम्बु न मैरेयाँदि । फलैर्वृत्तिनाद - नादिभिः । नो गजवाजिनार्यः शरीरमात्रत्वान्निचिन्ताः । राष्ट्रं देशो न पश्चात् १ पश्चातापवान् इत्यर्थः | २ मैरेयं मद्यविशेषः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८५
दिखावट