पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः- क्षयव्ययप्रयासप्रत्यवाया भवन्तीत्युक्तम् । फलं न किंचित् न शुभा समाप्तिः स्वबन्धुविनाशहेतुत्वात् । अतो योद्धुमरिं ज्यायांसं संत्यज । भुवि कृतानुरागं त्वं पुनरकृतानुराग इति ॥ ४६ ॥ अन्यच्च वालिवध एव तस्यार्थसम्पज्जयायेति दर्शयन्नाह -- त्वन्मित्रनाशों निजमित्रलाभः समेतसैन्यः स च मित्रकृच्छ्रे । भोग्यो वशः पश्य शरेण शत्रों: प्रसाधितो वालिवधे न कोऽर्थः॥४७॥ त्वन्मित्रेत्यादि --- वालिवधे सति शरेण रामस्य कोऽथों न प्रसोधित:,' अपि तु सर्व एव पश्य । तथाहि । त्वन्मित्रनाशः तस्य च मित्रलाभः मित्रं च तल्लाभश्चेति । समेतसैन्यः कृच्छ्रे संकटप्राप्तौ भूतभोग्यः उपजीव्यः । वशो- अनुकूल इति ॥ ४७ ॥ तं विभिद्य साधयिष्यामीति चेदाह --- लोभाद्भयाद्वाऽभिगतः कपीन्द्रों न राघवं येन भवेद्विभेद्यः । स्थितः सतां वमने लब्धराज्यः प्रतिप्रियं सोऽभ्यगमच्चिकीर्षुः ॥४८॥ लोभादित्यादि -- क्रुद्धलुब्धभीतावमानिताश्चत्वारो भृत्याः परस्य भेद्याः | तत्र कपीन्द्रो राघवं लोभायाद्वा त्रासाद्वा नाभिगतः । येन हेतुनाऽयं विभेद्यः स्यात् । यस्माद्दुसौ सतां मार्गे स्थितः सन् लब्धराज्यो लाभरतः प्रतिप्रियं चिकर्षुिः ॥ ४८ ॥ तदनुजीविनोऽपि भेद्या इति दर्शयति- फलाशिनो निर्झरकुञ्जभाजो दिव्याङ्गनानङ्गरसानभिज्ञाः । न्यग्जातयों रनवरैरलभ्या मुख्याः कपीनामपि नोपजप्याः ॥ ४९ ॥ फलाशिन इत्यादि—कपीनामपि मुख्या नीलकुमुदादयोऽपि नोपजप्या: नोपजपितुं शक्या: । यतः फलाशिनो मिष्टान्ननिरपेक्षाः । निर्झरकुञ्जभाज: न रम्यप्रासादवासिनः । दिव्याङ्गनानङ्गरसानभिज्ञा दिव्याङ्गनासु योऽनङ्ग- रसः सुरतरसः तद्नभिज्ञाः न्यग्जातयः न्यञ्चन्तीति 'ऋत्विग्द'वृक्स्रग् दिगुष्णिगञ्चुयुजिक्रुञ्चां च | ३ | २ | ५९ | इत्यानेन क्विन् ॥४९॥ १ पूरित इत्यर्थः ।