पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संगः ] प्रसन्नकाण्डम् | (३४५) सत्यामुत्साहशक्तौ शेषयोरभावान्न होनेन विग्रह एव युज्यत इत्याह — दण्डेन कोशेन च मन्यसे चेत्प्रकृष्टमात्मानमरेस्तथापि । रिक्तस्य पूर्णेनं वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु ॥ ४३ ॥ दण्डेनेत्यादि --दण्डेन चतुरङ्गेन वलेन, कोशेन हेमरूप्यादिना यदि प्रकृष्टमात्मानमरेः सकाशान्मन्यसे, तथाप्येवमपि न युक्तं यतो रिक्तस्य पूर्णेन भवता विनाशो भङ्गः वृथा निष्फलः । पूर्णस्य पुनर्भवतो भने बहु हीयत इति हीनेन बलवतोऽपि संधानं युक्तम् । रिक्तस्य भङ्गो माभूत् ॥ ४३ ॥ अन्यद्विजयफलमस्तीति चेदाह - — क्लिष्टाऽऽत्मभृत्यः परिसृग्यसम्पन्मानी यतेंताऽपि ससंशयेऽर्थे । संदेहमारोहति यः कृताऽर्थो नूनं रतिं तस्य करोति न श्रीः ॥४४॥ क्लिष्टेत्यादि -- यो मानी किष्टात्मभृत्यः चिरकालक्लिष्टशरीरः क्लिष्टभृत्यश्च । परिसृग्यसम्पत् प्रार्थनीया विभूतिर्येन । मृगयते: स्वार्थिकण्यन्तादचो यत् । ससंशयेऽर्थे स्यान्न स्यादिति यतेतापि यत्नं कुर्यात् । यः कृतार्थो भवादृशः त्रैलोक्यविजयित्वात् संदेह मारोहति संदेहे प्रवर्तते, तस्य नूनमवश्यं श्रीर्विभूतिः रतिं स्थितिं न करोति ॥ ४४ ॥ कदा तार्ह विग्रह इत्याह -- शक्यान्यदोषाणि महाफलानि समारभेतोपनयन्तमाप्तिम् । कर्माणि राजा विहिताऽनुरागो विपर्यये स्याद् वितथः प्रयासः ॥ ४५ ॥ शक्यानीत्यादि--शक्यानि यानि कर्तुं पार्यन्ते । अदोषाणि शुद्धानि महाफलांनि कार्याणि राजा समारभेत विग्रहेणेत्यर्थात् | उपनयन् समाप्तिं नयन् । विहितानुरागोऽनुरक्तकृतिः । विपर्यये उक्तस्य । अशक्यानि दोषाधि- कानि स्वल्पफलानि राजा समारभेत समाप्तिं च न नयति स वितथ: प्रयास: निष्फलो विग्रहः ॥ ४५ ॥ ममापि रामविग्रहेण सर्वमस्तीति चेदाह---- जेतुं न शक्यो नृपतिः सुनीतिदर्दोषः क्षयाऽऽदिः कलहे ध्रुवश्च । फलं न किंचिन्न शुभा समाप्तिः कृताऽनुरागं भुवि सन्त्यजारिम् ॥ ४६॥ जेतुमित्यादि --नृपती राम: जेतुं न शक्यः विग्रहेण । उत्साहशक्तियुक्त- त्वात् । तेन सह कलहे दोषः क्षयादिः ध्रुवोऽवश्यंभावी । विग्रहे वासति ५ परिणामे भव्यफलानीति भावः ।