सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४४ ) भट्टिकाव्ये जयमङ्गलासमेतें- युवयोः संधानकारणमस्त्येवेति दर्शयन्नाह --- रामोऽपि दाराऽऽहरणेन तप्तो वयं हतैर्वन्धुभिरात्मतुल्यैः । तप्तस्य तप्तेन यथाssयसो नः संधिः परेणाऽस्तु विमुश्च सीताम् ॥ ४० ॥ राम इत्यादि --- यथा तप्तेनायसा तप्तस्यायसः संधिर्घटते तद्वदस्माकं तप्तानां तप्तेन रामेण सन्धिरस्तु । अतो मुञ्च सीतां सन्धिनिमित्तम् ॥ ४० ॥ यदि च तेन तप्तेनापि सता ज्यायसा न सन्धानं तदा सर्वे वयं न जीवामः • तव तेजसो विनाशकत्वादिति दर्शयन्नाह


IN संधुक्षितं मण्डलचण्डवातैरमर्पतीक्ष्णं क्षितिपालतेजः । सामाऽम्भसा शान्तिमुपैतु राजन्मसीद जीवाम सबन्धुभृत्याः ॥४१॥ सन्धुक्षितमित्यादि — क्षितिपालतेज: सीतावियोगजम् । इन्द्रादिमण्डलै- अण्डवातैरिव संधुक्षितं दीपितम् । अमर्पतीक्ष्णम् असहिष्णुतयाऽसह्यम् | सामाम्भसा सान्ना सन्धिना अम्भसेव शान्तिमुपैतु । हे राजन् ! प्रसीद किं संरम्भेण । अन्यथा तमारण्योऽग्निरिव दुःखामर्षजं तेजो विक्रमयतीति ॥ ४१ ॥ समानयोरपि सन्धानमेव युज्यते न विग्रहः किं पुनर्ज्यायसीत्यत्र हेतुं दर्शयन्नाह - [ द्वादशः - अपककुम्भाविव भङ्गभाजौ राजन्नियातां मरणं समानौ । बीयें स्थितः किंतु कृताऽनुरागो रामो भवांश्चोत्तमभूरिखैरी ॥ ४२ ॥ अपक्केत्यादि--हे राजन् ! यथा कुम्भावपक्कौ भङ्गभाजौ परस्पराभिहतौ विनश्यतः । तद्वत् समाना युध्यमानी मरण मियातांम् । सार्वधातुकयकारत्वा- दिणो न दीर्घत्वम् । राजन्नियातामिति 'ङमो ह्रस्वादचि ङमुण् नित्यम् | ८|३|३२| इति नुडागम: । किंतु रामो वीर्ये स्थितः उत्साहशक्तियुक्त इत्यर्थः । विक्रमबलं चोत्साह शक्तिः । कृतानुरागश्च अनुरक्तमण्डलत्वात् । भवान् पुनः उत्तमभूरि- वैरी | उत्तमा इन्द्रादयो भूरयः प्रभूता वैरिणः शत्रवो यस्य | अतस्तेन संधानमेव युक्तं न विग्रहः ॥ ४२ ॥ ननु च समज्यायोभ्यां सन्धीयेत हीनेनव विगृह्णयात् । मन्त्रप्रभावो- त्साहशक्तिभिर्युक्तो ज्यायान् । अपचितो हीनः | तुल्यशक्तिः समः । तत्र ज्ञानवलं मन्त्रशक्तिः । कोशदण्डवलं प्रभुशक्तिः । विक्रमबलम् उत्साहशक्तिः । १ प्रपद्येतामित्यर्थ: : 'इणू गतो' }