पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] प्रसन्नकाण्डम् | (३४३ ) त्वयेत्यादि-- त्वया पुनश्चतुर्वर्णोच्छेदकारिणा लोके जनितो विरागः । इन्द्रमुख्यं च शऋप्रधानं मण्डलं प्रकोपितम् । रामे तु सर्वमेतद्विपरीतम् अनु रागेण जनितं मण्डलं चानुरञ्जितं तेनाभ्यधिकं विपक्षं रामं पश्यामि ॥ ३६॥ न चेदानीं भवतः कार्य विनष्टम् अपि तु प्रागेवेति दर्शयन्नाह -- एकेन वाली निहतः शरेण सुहृत्तमस्ते रचितश्च राजा | यदैव सुग्रीवकपिः परेण तदैव कार्ये भवतो विनष्टम् ॥ ३७ ॥ एकनत्यादि- तव सुहृत्तमा वाली यदैव परेण रामेण कर्त्रा शरे- जैकेन निहतः, सुग्रीवश्च कपिस्त्वच्छत्रू राजा रचितः स्थापितः तदैव विनष्टमिति ॥ ३७॥ अथ प्रतापवतो मम कथं कार्यं विनश्यति, प्रतापादेव शत्रवो नश्यन्तीति चेदाह -- - प्राकारमात्राऽऽवरणः प्रभावः खराऽदिभियों निहतैस्तवाऽभूत् । लङ्काप्रदाहाऽक्षवधद्रुभङ्गैः क्लाम्यत्यसावप्यधुनाऽतिमात्रम् ॥ ३८ ॥ प्राकारेत्यादि- तव त्रैलोक्यप्रमाथी प्रताप आसीत् । पुनः खरादिभि र्निहतैः प्राकारमात्रावरणो जातः । लङ्कायामेव समर्थत्वात् । असावप्यधुना लङ्कादाहेन, अक्षवधेन, द्रुमभङ्गेन अशोकवनिकाभङ्गेन च अतिमात्रमत्यर्थे क्लाम्यति ग्लानिमुपगच्छंति ॥ ३८ ॥ अतो रामेण सह युद्धं न घटते तदेव दर्शयन्नाह -- - षड्वर्गवश्यः परिमूढबन्धुरुच्छिन्नमित्रो विगुणैरुपेतः । मा पादयुद्धं हिरन कार्पोर्नम क्षितीन्द्रं प्रणतोपभोग्यम् ॥ ३९ ॥ बड्डगैत्यादि - वशंगतो वश्यः कामादेवश्यः । परिमूढबन्धुः मूर्खामात्या- दिपरिवारः । उच्छिन्नमित्र: वर्गस्यासंभवात् । अरिगणैरुपेतः । तद्विपरीतो रामः । अतो द्विरदेन पादयुद्धमिव तेन ज्यायसा मा विग्रहं कार्षीः । अपि तु क्षितीन्द्रं रामं नम॑ । प्रणतोपभोग्यम् अनेन हीनसंधिमाह । तथा चोक्तम्- 'प्रवृत्तं मन्त्रिणाकान्तो राजा बलवताऽबलः । संधिनोपनमेत्तूर्ण दण्डकोशा त्मभूमिभिः ॥' इति ॥ ३९ ॥ ॐ प्रणमेत्यर्थः ।