पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४२ ) भट्टिकाव्ये जयमङ्गलासमेत- [ द्वादश :-- शक्नोतीत्यादि — यो विजिगीषुः अबलत्वात् द्विषतः शत्रूनभिहन्तुं विप्र- हृांतुं न शक्नोति अबलैषिद्भिर्नापि विहन्यते स विजिगीषुः श्वावराहं कलहं विद्ध्यात् अनुतिष्ठेत् । श्वा च वराहश्च, श्वावराहं तदीयमिव कलहम् ॥ “तस्येदम् ।४।३ । १२० ।' इत्यण् । यथा चाण्डाला वराहं हन्तुमशक्ताः श्वानं विमुच्य योधयन्ति यद्ययं हतोऽनेन वा अयमिति तयोर्भक्ष्यत्वा- दुभयथा कार्यसिद्धेः । तद्योर्विद्विषतोः कलहं विद्ध्यात् । स्वयं च दुर्गादि विवर्धयन् दुर्गसंतुवणिक्कृषिशून्यनिवेशनद्रव्यहस्तिवन कर्माप्युपाचे - न्वन् आसीत् तिष्ठेत् ॥ ३३ ॥ यदा विजिगीषुर्यानमात्र साध्यं शत्रुमात्मानं वा शक्तिहीनं पश्येत् तदा व्यायात संश्रयेतेति गुणद्वयमुपदिशन्नाह - प्रयाणमात्रेण परे प्रसाध्ये वर्तेत यानेन कृताऽभिरक्षः । अशक्नुवन्कर्तुमरेर्विघातं स्वकर्मरक्षां च परं श्रयेत ॥ ३४ ॥ प्रयाणमात्रेणेत्यादि — प्रयाणमात्रेण प्रसाध्ये परे शत्रौ नापरं विग्रहमपे- क्षेत, यानेन वर्तेत, स्ववृत्तौ वर्तेत । कृताभिरक्षः अभियास्यतः कर्मणां द्विविध- त्वप्रतिविधानात् । अरेर्विघातं दुर्गादिकर्मोपघातान् स्वकर्मरक्षां स्वेषां दुर्गा. दिकर्मणां अपरेणोपहन्यमानानां रक्षां कर्तुमशक्नुवन् शक्तिहीनत्वात् परं श्रयेत यमाश्रित्य क्षयस्थानात् ज्ञानवृद्धिमाप्नुयात् । परो द्विविधः अभियोक्ता तद्विशि टबलोऽपरोऽन्य इति ॥ ३४ ॥ यदा तु सहायसाध्यं कार्यं पश्येत् तदा संधिविग्रहासनद्वैधीभावं गच्छे- दित्युपदिशन्नाह - एकेन सन्धिः कलहो परेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिम् | एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहितात्मसारम् ॥ ३५॥ एकेनत्यादि --अभित, उभयपार्श्वयोः संधिना विग्रहेण वा वृद्धि समीक्ष्य पश्चादेन शत्रुणा स्वयमभियुक्तेन संधिः अपरेण सहायाभियुक्तेन विग्रहः कार्यः । एवमुक्तेन प्रकारेण अहितस्य शत्रोरात्मनश्च सारं बलाबलं विजिगीषु विजानन् एता नीती: षाड्गुण्यलक्षणाः प्रयुञ्जीत ।। ३५ ।। 4 त्या पुनरेव न प्रयुक्ता इति दर्शयन्नाह - त्वया तु लोके जनितो विरागः प्रकोपितं मण्डलामेन्द्र मुख्यम् । रामे तु राजन् ! विपरीतमेतत् पश्यामि तेनाऽभ्यधिकं विपक्षम् ।