पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] प्रसन्न काण्डम् | ( ३४१ ) सन्धि कृतवतोऽपि विजिगीषोः परेण वा वियुज्यमानस्य विधिमुपदि 7 सन्नाह - सन्धौ स्थितो वा जनयेत्स्व वृद्धि हन्यात्परं वोपनिषत्प्रयोगः । आश्रावदस्य जनं परैर्वा विग्राह्य कुर्यादवहीनसन्धिम् ॥ ३० ॥ सन्धावित्यादि-संधौ स्थितो वर्तमानः जनयेत् स्ववृद्धिम् | यया अत्यु- च्छ्रितः तामभियुञ्जीत परं वा शत्रुम् उपनिषत्प्रयोगैः विषादिदानैः हन्यात् विना- शयेत् सन्धिना जातविश्वासत्वात् । आश्रावयेदस्य जनं देशादिदानेनाकर्षयेत् । बलवता अभियुज्यमानः परैः विग्राह्य कलहं कारयित्वा अवहीनसन्धिम् आ क्रान्तसंधिं कुर्यात् । तस्योपतापितत्वात् ॥ ३० ॥ संधित्सोर्विजिगीषोः शत्रुमण्डलभेदं कुर्वतः सुकरः संधिरित्युपदिशन्नाह - सन्दर्शित स्नेहगुणः स्वशत्रून्विद्वेषयन्मण्डलमस्य भिन्द्यात् । इत्येवमादि प्रविधाय सन्धिवृद्धेविधेयोऽधिगम । भ्युपायः ॥ ३१ ॥ सन्दर्शितेत्यादि - अस्मच्छत्रवोऽनेन सन्धान मा कार्षुरिति तान्विद्वे- षयन् विमुखानुत्पादयन् । सन्दर्शितस्नेहगुणः प्रकटीकृतानुरागगुणः । अस्य शत्रोर्मण्डलममात्यादिप्रकृतिं भिन्द्यात् । इत्येवमादि प्रविधाय सन्दर्शिते- त्येवमादिवाक्यार्थं कृत्वेत्यर्थः । वृद्धेरधिगमाभ्युपायः प्राप्तिहेतुः सन्धिर्विधेयो- ऽनुष्ठेयः ॥ ३१ ॥ विग्रहोऽपि विशिष्टस्यैव विजिगीषोर्न यस्य कस्यचिदित्युपदिशन्नाह -- मत्वा सहिष्णूनपरोपजप्यान्स्वकानधिष्ठाय जलाऽन्त दुर्गान् । द्रुमाऽद्रि दुर्लङ्घचजलाप्रधृष्यान्वर्धेत राजा रिपुर्विग्रहेण ॥ ३२ ॥ मत्वेत्यादि-स्वकांनात्मीयाननुजीविनः सहिष्णून समर्थान् अपरोपज ध्यान् परैरभेद्यान् जलान्ते ये दुर्गा : प्रदेशाः तानधिष्ठाय तत्र स्थापयित्वा । ‘अधिशीङ्स्थाऽऽसां कर्म्म । १ | ४ | ४६ ।' इति कर्मसंज्ञा । कीदृशान् हुमै - रद्रिभिदुर्लयजलैचाप्रवृप्यान् अगम्यान् । वनपर्वतजलभेदात् त्रिविधं दुर्गम् । रिपुणा सह यो विग्रहः तेन हेतुना राजा वर्धेत वृद्धयुपचितः ९ स्यात् ॥ ३२ ॥ यदा अरिविजिगीषू परस्परं हन्तुं न शक्तौ तदा विजिगीषोरासनमुप- दिशन्नाह - शक्नोति यो न द्विषतो निहन्तुं विहन्यते नाऽप्यचलैर्द्विषद्भिः । स श्वावराहं कलहं विद्ध्यादासीत दुर्गाऽऽदि विवर्धयंश्च ॥ ३३ ॥