पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४०) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादश:- अस्ति स कालो यत्र विजिगीपुणा परवृद्धिरुपेक्षणीयेति दर्शयन्नाह ---- उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रियस्य | मदाऽऽदियुक्तस्य विरागहेतुः समूलघातं विनिहन्ति याऽन्ते ॥ २७॥ उपेत्यादि ----परः शत्रुः प्रनष्टनीतित्वाद जितेन्द्रियः न मदादिषवर्ग त्यजति, किंतु तेनैव युज्यते । तस्यैवंविधस्य या वृद्धिः सा सर्वस्यैव लोकस्य विरागहेतुः वैमुख्यकारणमुपेक्षणीयैव न तद्भावाय । तेनेहशी या अन्ते अवसाने समूल- घातं सर्व सर्वेण विनिहन्ति विनाशयति ॥ २७ ॥ तथास्ति स कालो यत्र विजिगीषुणाप्यात्मक्षय उपेक्षणीय इत्याह---- जनाऽनुरागेण युतोऽवसादः फलाऽनुबन्धः सुधियाऽऽत्मनोऽपि । उपेक्षणीयोऽभ्युपगम्य सन्धि कामाऽऽदिषड्ड वर्गजिताऽधिपेन ॥ २८ ॥ जनेत्यादि---आत्मनोऽप्यवसादः क्षयः जनानुरागेण युतः संबद्धः । अनु- रक्तप्रकृतिमण्डलत्वाद्विजिगीषोः फलानुबन्धः फलमनुबध्नाति । सुधिया विदुषा अधिपेन राज्ञा । कामादिषवर्गजिता कामक्रोधलोभमोहमदेर्ष्याणां पण्णां वर्ग- स्तज्जिता उपेक्षणीयः। तत्रापि परैः सन्धिमभ्युपगम्य कृत्वा । अन्यथा क्षीणो- ऽयमिति पनरोऽभियुञ्जीत ॥ २८ ॥ यदा च विजिगीषुः संधिविग्रहाभ्यां फलं न पश्येत्तदा स्ववृद्धिप्राप्त्यर्थमा सनं कुर्यादित्युपदिशन्नाह - यदा विगृह्णन्न च सन्दधानो वृद्धि क्षयं चानुगुणं प्रपश्येत् । आसीत राजाऽवसरप्रतीक्षस्तदा प्रयासं वितथं न कुर्यात् ॥ २९ ॥ यदेत्यादि — यदा हि राजा विजिगीषावस्थितः विगृह्णन् विग्रहं कुर्वन् आत्मनोऽनुगुणामनुकूलां वृद्धि न पश्येत् क्षयं वा परस्यात्मनोऽनुगुणं न पश्येत् । संधान इति संधि च कुर्वन्नात्मनोऽनुगुणं न पश्येत् तदा आसीत स्ववृ- द्ध्यर्थमासनं कुर्यात् न विग्रहं संधि वा । अवसरः कालस्तं प्रतीक्षत इति अवस- रप्रतीक्षः । 'कर्मण्यण् |३||२|१|| इत्यण् | सन्धेर्विग्रहस्य वा स्वपरवृद्धिक्षया- नुकूलं कालं प्रतीक्षमाण इत्यर्थः । न पुनः प्रयासं संधिविग्रहोद्यमं वित्तथं निष्प्रयोजनं कुर्यात् । यदा तु परं विग्रहीतुमशक्तः तदा श्वावराहकलहं समान- मुपदेक्ष्यति ॥ २९ ॥ १ अत्र परिकरः ।