पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•सर्गः ] प्रसन्नकाण्डम् | (३३९) अग्निरित्यादि - वध्यस्य वधार्हस्य देहे तदेकदेशेषु पुच्छादिषु प्रमादेन स्वयं युष्माभिरग्निरेधितो दीपितः लङ्कां दादाह चेत्, तथास्तु । ब्रह्माखव- न्धोऽपि यदि प्रमादः तद्देवधिया देवबुद्धया देवानां सात्त्विकत्वान्निर्मला बुद्धिः तया विमृश्य निरूप्याभिधत्त ब्रूत | सोऽपि प्रमाद इति यतोऽसावमो- घोऽपि विश्लेषितः । अभिधत्तेति । 'द्धस्तथा |८|२|३८|' इत्यभ्यासदकारस्य भष, धातोश्च खरि चर्त्वम् ॥ २४ ॥ पराभियोगः सर्वथा निरूप्यत इति दर्शयन्नाह -- जगन्त्यमे याऽद्भुतभावभाजि जिताऽभिमानाच जना विचित्राः । कार्ये तु यलं कुरुत प्रकृष्टं मा नीतिंगर्भान्सुधियोंऽवमन्ध्वम् ॥ २५ ॥ - जगन्तीत्यादि — असंख्य विचित्रभावभाजि जगन्ति तत्रत्या अपि जना: विचित्राः शक्तिदेशकालवशात् जिताभिमानाश्च । अन्यैरुत्कृष्टृर्जीयतेऽभिमान - स्तषाम् । तेनात्मन्यभिमानो न कर्तव्य इति दर्शयति । कार्ये तुप्रकृष्टमुत्तमं यत्नं कुरुत | येन तत्कार्य सिध्यति । तत्र च ये युक्तिमभिद्धति तान्नीतिगर्भान् नीतिरेव षाड्गुण्यादिज्ञानं गर्भे येषाम् । अत एव सुधियो मावमन्ध्वं मा परि- भूत । तदयुक्तानुष्ठानात् । 'हनः सिच् | १ | २ | १४ |' इति कित्त्वविधान- सामर्थ्यात् अनुनासिकलोपाभावः । 'धिच | ८ | २ | २५ ।' इति सिचो लोपः ॥ २५ ॥ यथा च विजिगीषुणा वर्तितव्यं तथोपदिशन्नाह -- वृद्धिक्षयस्थानगतामजस्रं वृत्ति जिगीषुः प्रसमीक्षणः । तस्य घटेत सन्ध्याऽऽदिषु यो गुणेषु लक्ष्मीने तं मुञ्चति चञ्चलाऽपि ॥ २६ ॥ वृद्धीत्यादि ---- आत्मद्रव्यप्रकृतिसंपन्नो नयस्यांधिष्ठानं विजिगीषुः च वृद्धिक्षयस्थानमिति त्रीणि फलानि । गुणाश्च सन्धिविग्रहयानासनसंश्रय- द्वैधीभावाः पट । तत्र यस्मिन् गुणे स्थितः पश्येदिहस्थः पश्यामीति | दुर्गसेतु वणिक्कृषिशून्यनिवेशनद्रव्यहस्तिवन कर्माण्यात्मनः प्रवर्तयितुं परस्य चैतानि हन्तुं गुणमातिष्ठेत् सा वृद्धिः । यस्मिन् गुणे स्थितः स्वकर्मणामुप चातं पश्येत् नेतरस्य तस्मिन्न तिष्ठेत् स क्षयः । स्वकर्मणां वृद्धिगुणेना- भिपश्येदेतत् स्थानमित्यनेन मार्गेण यो विजिगीषुः वृद्धिक्षयस्थानगतामात्मनः परस्य च वृत्तिमजस्रं शश्वत् प्रसमीक्षमाणो निरूपयन् सन्ध्यादिषु षड्डणेषु A । तं विजिगीषु लक्ष्मीः राज्यश्री: चञ्चलापि न मुञ्चति । गुण- शृङ्खलाबद्धत्वात् ॥ २६ ॥