पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३८) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादश:- मघाक्षीत् दुग्धवान् । 'एकाचो बशो भष् झषन्तस्य स्वोः |८|२|३७ | इति धत्वम् । हलन्तलक्षणा वृद्धिः | 'हो ढः | ८|२||३१|' | 'पढोः कः सि।८।२।४९१ | इति कः निजेन आत्मीयेन प्रमादेन ज्वालादर्शितलक्षणेन तदानीं तस्य शस्त्र व्यापादनमेव युक्तमिति ॥ २० ॥ अथाञ्चितोरस्कमुदीर्णदृष्टिः कृत्वा विवक्षाप्रवणं शरीरम् । विवृत्तपाणिर्विहितोत्तरार्थं विभीषणोऽभाषत यातुधानान् ॥ २१ ॥ विन्यस्तहारत्वात् । अथेत्यादि — प्रहस्तादिवचनानन्तरम् अश्चितोरस्कं पूजितोरस्कम् । 'उरः प्रभृतिभ्यःकप् |५|४|१९५१।' इति कप्‘अञ्चे: पूजायाम् । ७७२॥ ५३|' इतीट् । 'नाचे: पूजायाम् | ६|४|३०|' इत्यनुनासिकलोपप्रतिषेधः । तादृशं शरीरं विवक्षाप्रवणं वक्तुमिच्छाभिमुखं कृत्वा शरीरस्य सौष्ठवम् उत्पाद्येत्यर्थः । उदीर्णदृष्टिस्तदभिमुखदृष्टिः । विवृत्तपाणिस्तदभिमुखीकृत दक्षिणपाणिः विभी- षणो यातुधानानभाषत । विहितोत्तरार्थ विहितः प्रतिषिद्धः परैरुदितस्य वचन- स्यार्थो यत्र भाषण इति ॥ २१ ॥ युद्धाय राज्ञा सुभृतैर्भवाद्भः सम्भावनायाः सदृशं यदुक्तम् । तत्प्राणपण्यैर्वचनीयमेव, प्रज्ञा तु मन्त्रेऽधिकृता न शौर्यम् ॥ २२ ॥ युद्धायेत्यादि — युद्धार्थ राज्ञा भवन्तः सुभृताः संवर्धिताः तैः सुभृतैर्य- दुक्कं 'भानुं पिनषाम' इत्यादि कीदृशम् । संभावनायाः सदृशम् | तत्प्राणपण्यै बैचनीयमेव । मन्त्रे तु प्रज्ञाधिकृता न शौर्यम् ॥ २२ ॥ - 'नराभियोगं किं नयसे गुरुत्वम्' इत्यत्रोत्तरमाह-- यच्चापि यत्नाऽऽदृतमन्त्रवृत्तिर्गुरुत्वमायाति नराभियोगः । वशीकृतेन्द्रस्य कृतोत्तरोऽस्मिन् विध्वंसिताशेपुरो हनूमान् ॥ २३ ॥ - यच्चेत्यादि — वशीकृतेन्द्रस्य निर्जितशऋस्य रावणस्य नराभियोगो यत्ना- हतमन्त्रवृत्तिर्यन्ने नाहता मन्त्रवृत्तिर्यस्य सः तादृशा गुरुत्वमायातीति यच्चाप्युक्तम् अस्मिन् वस्तुनि हनूमान् कृतोत्तरी दत्तात्तरः । यतः प्रध्वंसिताशेत्रपुरः । पुरं लङ्का | पूःशब्दो वा कृतसमासान्तः । यत्र कपिनाथभृत्येन ईदृशमनुष्ठिवं स कथं जराभियोगो मन्त्रोन्मुखो न निरूप्यत इति ॥ २३ ॥ • प्रमादेनाग्निः लङ्कामघाक्षीदित्यत्रात्तरमाहू- अग्निः प्रमादेन दाइल व देहे स्वपमेवियेत् । विमृश्य तद्देवधियाऽभिवत्त झाऽत्रचन्थोऽशवे यदि प्रमादः ॥ २४॥