पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (३३७) अखण्ड्य मानमित्यादि --- शक्रमखण्ड्यमानं अनभिभवनीयाहंकारम् अतश्च पण्डितंमन्यं पण्डितमात्मानं मन्यमानं नान्यः पण्डितोऽस्तीति तादृशं परि- खण्ड्य जित्वा, त्वं नृभुजां प्रधान ! उदीर्णदण्डः अभ्यर्चितबलः सन् किमर्थं मन्त्रोन्मुखो मन्त्रप्रवणः नराभियोगं गुरुत्वं नयसे प्रापयसि | सुमन्त्रितानि कार्याणि सिध्यन्तीति । अत्र कर्तुर्गुणाभियोगेन क्रियाफलेन योगादात्मने- पदम् ॥ १७ ॥ निर्यत्स्फुलिङ्गाऽऽकुलधूम राशि किं ब्रूहि भूमौ पिनषाम भानुम् | आदन्तनिष्पीडितपीतमिन्दु ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम् १८ निर्यदित्यादि-समादिश आस्तां तावन्नराभियोगः । किं भानुं क्षितौ पिनषाम चूर्णयाम । प्रश्ने लोट् । 'रुधादिभ्यः अम् |३|१२|७८।' इति नम् । निर्यता निर्गच्छता स्फुलिङ्गनाकुलो धूमराशिर्यस्य तं भानुम् । आइति विकल्पे वर्तते । दन्तनिष्पीडित पीतभिन्दु वा पूर्व दन्तैर्निप्पीडितं पश्चात्पीतं ष्ठीवाम निरस्याम । 'वरुपधाया दीर्घ इकः | ८|२|७६ || इति दीर्घः । शुष्के- क्षुयष्टेरस्थीव तत्सदृशम् ॥ १८ ॥ सराघवैः किं बत वानरैस्वयः प्रातराशोऽपिन कस्यचिन्नः । सस्थाणुकैलासधराभिधत्व किं द्यौरधोऽस्तु क्षितिरन्तरिक्षे ॥१९॥ सराघवैरित्यादि - सस्थाणुर्यः कैलासः तस्य धर धरः । पचादित्वात् कर्तर्यच् कस्यचिदेकस्य यैः सरायवैः समासः । धारयतीति । हे सस्थाणुकैलासधर ! नोऽस्माकं मध्ये प्रातराशोऽपि प्रातर्भोजनमपि न भवति । अतो- तैः सराघववानरैः किं प्रयोजनम् ।बतशब्दोऽनुशोचने Sधित्स्व आदिश । किं धौराकाशमधोऽस्तु भवतु, क्षितिर्वा अन्तरिक्षे उपरिष्टास्त्विति ॥ १९ ॥ चापल्ययुक्तस्य हरेः कृशानुः समेधितो वाल धिभात्वदीयैः । शस्त्रेण वध्यस्य गलन्नधाक्षीद्वाजन् ! प्रमादेन निजेन लङ्काम् ॥ २० ॥ चापल्येत्यादि--चपलस्य कमणि भावश्चापल्यम् । 'गुणवचनब्राह्मणादिभ्यः च | ५११११२४ | इति ब्राह्मणादित्वाद्भावे प्यन् ।युवादिष्वपि दृश्यते । तत्र चापलमिति रूपम् । तेन युक्तस्य हरेमर्केटस्य हे राजन् ! शोण वध्यस्य सतः यो वालधिः पुच्छं तद्भाक् समाश्रितः कृशानुस्त्वदीयैः भृत्यैः समेधितो वर्धितः तैलघृतादिभिर्गृहात गृहं गच्छतो गलन् पुच्छात्पतन लङ्का--