पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३३६) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः - ततो दशाऽऽस्यः क्षुभिताऽहिकल्पं दीमाङ्गुलीयोपलमूढरत्नम् । अनेकचञ्चन्नखकान्तिजिह्वं प्रसार्य पाणि समितिम्बभाषे ॥ १३ ॥ तत इत्यादि ----विभीषणनिवेशनादुत्तरकालं दशास्यः पाणिं क्षुभिता - हिकैल्पं क्रुद्धविस्तृतफणेन सर्पेण तुल्यम् । दीपो दीपनशीलोऽङ्गुलीयोपलो- ऽगुलीयरत्नम् । यतः तत एव ऊढरत्नम् । अनेकाश्चञ्चन्त्यश्चलन्त्यो नख- कान्तयो जिह्वा इव यस्य तं प्रसार्य समितिं राक्षससमूहं बभाषे ॥ १३ ॥ शक्तैः सुहृद्भिः परिदृष्टकार्येराम्नातिभिनतिषु बुद्धिमद्भिः | युष्मद्विधैः सार्धमुपायविद्भिःसिध्यन्ति कार्याणि सुमन्त्रितानि ॥ १४ ॥ शक्तैरित्या दि-शक्तैः समर्थैः सुहृद्भिमित्रैः परिदृष्टकार्यैः मा भूदद्दष्ट- कर्मणां कर्मसु विषद इति । नीतिषु आम्नातिभिः अभ्यस्तनीतिशास्त्रैरित्यर्थः । 'इष्टादिभ्यश्च |५|२|८८|' इति इनिः । 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् इति कर्मणि सप्तमी । बुद्धिमद्भिः ज्ञानवद्भिः । उपायविद्भिः सामादिकुशलै- रित्यर्थः । युष्मद्विधैः सह कार्याणि सुमन्त्रितानि सिध्यन्ति ॥ १४ ॥ उपेक्षिते वालिखराऽऽदिनाशे दग्धे पुरेऽक्षे निहते सभृत्ये । सैन्ये द्विषां सागरमुत्तितीपवनन्तरं ब्रूत यदत्र युक्तम् ॥ १५ ॥ उपेक्षित इत्यादि-वालिखरादिनाशेषूपेक्षितेषु द्विषां च सैन्ये सागर- मुत्तितीर्पावुत्तरितुमेषणशीले । अनन्तरमिदानी ब्रूत वदत यदत्र युक्तमिति उत्तितीर्षाविति 'इकोऽचि विभक्ती | ७ | १ | ७३ ।। इति नुम् न भवति । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य |७|१|७४ |' इति पुंवद्भावः ॥ १५ ॥ भुजांसवक्षःस्थलकार्मुकासीन् गदांश्च शूलानि च यातुधानाः । परामृशन्तः प्रथिताभिमानाः प्रोचुः प्रहस्तप्रमुखा दश स्यम् ॥ १६ ॥ भुजांसेत्यादि — यदि वयं शत्रून् न व्यापायोमस्तदा किमेतैर्भुजादिभि- रूढैरिति प्रथिताभिमानाः प्रकाशिताहंकारा भुजादीन् परामृशन्तः प्रहस्त प्रमुखा यातुधाना दशास्यं प्रोचुर्वक्तुमारब्धाः 'वच परिभाषणे' लिट् उस् ॥ १६ ॥ 1- अखण्डयमानं परिखण्डय शक्रं त्वं पण्डितम्मन्यमुदीर्णदण्डः । नराभियोगं नृभुजां प्रधान मन्त्रोन्मुखः किं नयसे गुरुत्वम् ॥१७॥ १ कुपितभुजगापेक्षया किञ्चिदूनत्वात्सढशमिति भावः | २ विनाशयामः |