पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । (३२९) कृशानुवर्ष्मणीत्यादि–सिंहासने उच्चैस्तुङ्गे कृशानुवर्ष्मणि अग्नितुल्ये अधि- रूढम् उपविष्टम् । संक्षयमेघवद्भीमम् अतिभयंकरम् | निसर्गतीक्ष्णं स्वभाव- रौद्रम् | नयनानि स्फुलिङ्गा इव यस्य तमैक्षिष्ट | युगान्तवहेरिव धूमराशिम्, अग्नितुल्यासंहासने उपरि स्थितत्वात् । सोऽपि संक्षयमेघवद्भीमः, स्वभावतः कटुकत्वात् । स्वभावतीक्ष्णः । नयनानि विस्फुलिङ्गा यत्रेति ॥ ९ ॥ श्रीत्याऽपि दत्तेक्षणसन्निपातं भयं भुजङ्गाऽधिपवद्दधानम् | तमःसमूहाऽऽकृतिमप्यशेषानूर्जा जयन्तं प्रथितप्रकाशान् ॥ १० ॥ प्रीत्येत्यादि-- यथा भुजङ्गाधिपः शेष: प्रीत्या स्नेहेन दत्तेक्षणसन्निपात: समर्पित नेत्रनिवहो भयमाद्धाति तद्भयमाधानम् | तमःसमूहस्येवाकृति- यस्य तमपि प्रथितप्रकाशानशेपानर्कादीन् ऊर्जा बलेन जयन्तमैक्षिष्ट । ऊर्जेति “भ्राजभामधुर्विद्युतोर्जिप्र॒जुश्रावस्तुवः किप् |३|२|१७७१ इति किप् ॥ १० ॥ तं रत्नदायें जितमृत्युलोका रात्रिञ्चराः कान्तिभृतोऽन्वसर्पन् । प्रमुक्तमुक्ताफलमम्बुवाहं संजाततृष्णा इव देवमुख्याः ॥ ११ ॥ तमित्यादि - - यथा देवमुख्या: अमरत्वाजितमृत्युलोकाः दीप्तिघरा :: संजाततृष्णा: सन्त: प्रमुक्तमुक्ताफलमम्बुवाहमुपसर्पन्ति तद्वत्तं बिभीषणं रत्नदायम्, रत्नं दास्यतीति । 'अण् कर्मणि च |३|३|१२|' इति भविष्यत्काले क्रियायां क्रियार्थायामण् तत्र 'एककर्तृके भिन्नकर्तृ के इति विशेषाभावात् । अथवा 'दय दानगत्योः' इत्यस्मात् 'कर्मण्य |३|२|| १ || इत्यण् । रत्नं दयते ददातीति कृत्वा । रात्रिचरा भन्नयमलोका अन्वसर्पन् ।। ११ ।। -- कान्तिभृतो वा स किङ्करैः कल्पितमिङ्गितज्ञैः संबाधकं पूर्वसमागतानाम् । सिंहासनोपाश्रितचारुबाहुरध्यास्त पीठं विहितप्रणामः ॥ १२ ॥ स इत्यादि --स विभीषण: विहितप्रणामः कृतप्रणति: पीठमध्यास्त निषण्णवान् । किङ्करैर्भृत्यैरिङ्गितज्ञैरभिप्रायवेदिभिः कल्पितमुपनीतम् | पूर्वसमागतानां प्रथमप्रविष्टानां संबाधकं संकटकृत् संबाधत इति वुट्टचौ । ३ | १ | १३५ |' इति ण्वुल । रावणस्य सिंहासने उपाश्रितः स्थितः चारुर्बाहु- यस्य विभोषणस्येति सः ॥ १२ ॥ १ विस्फुलिङ्गा अग्निकणाः ।