पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) भट्टिकाव्ये जयमङ्गलासमेते- [ आद्यः अभूदित्यादि–तस्यै हीष्टदेवता सनातनो विष्णुः से चादौ कीर्तितः । तत्प्रतिबन्धन चेयं कथेति प्रवन्धेनैवात्रं संकीर्तन रामायणवत् । तत्र विष्णु- ना यस्मिन्काले जगत्कार्यवशावतारः कृतस्तदेव प्रथमं दर्शयति । अभूदिति भूतसामान्ये लुङ भूत इत्यर्थः; अन्यथा राज्ञश्चिराततित्वात् कवेः परोक्षत्वाच्च लिट् स्यात् 'गातिस्थाधुपाभूभ्यः सिच: परस्मैपदेषु २ । ४ । ७७ ।। इति सिचो लुक् । ‘भूसुवोस्तिङि | ७ | ३ | ८८ ।। इति गुणप्रतिषेधः ॥ ं नयते- र्डिच्च' इति नयतेरौणादिक ऋन् । नरो मनुष्यास्तान्नृन्पातीति । 'अतोऽनुप- सर्गे कः । ३ । २ । ३ ।' 'आतो लोप इटि च । ६ । ४ । ६४ ।' नृपो राजा अत्यन्तधर्मविजयित्व।द्देवराजस्य मित्रमासीदित्याह — विबुधसख इति । विबु- ध्यन्त इति विबुधा देवास्तेषामपि प्रधानत्वात् । तत्रेगुपधलक्षणः कः । सामा- न्यशब्दोऽपि देवेषु वर्तमानोऽप्यर्थवशाच्छके प्रयुक्तस्तस्य सखेति । 'राजाऽहः सखिभ्यष्टच् । ५ । ४ । ९१ ।' विबुधसखः । अनेन धर्मविजयित्वं दर्शयति, विबुधसखत्वस्य धर्मकार्यत्वात् । सुरलोकविजयिनश्च ये राजानस्तेषां धर्मवि- जयी प्रधानम् । परे शत्रवत्रिविधाः – उच्छेदनीयोपपीडनीयकर्षणीयाः । तत्र व्ये उपपीडनीयकर्षणीयास्तान्परांस्तापयतीति परन्तपः । ' द्विषत्परयोस्तापेः । ३। २ । ३९ । ' इति खच् । 'खचि हूस्वः । ६ । ४ । ९४ । १ । “अरुद्विषदजन्तस्य मुम् | ६ | ३ | ६७ ।। इति मुम् । नृप इत्यनेन स्वमण्डले वृत्तिराख्याता। परन्तप इति परमण्डले | श्रूयन्त इति श्रुतानि वेदादीनि तैर- न्वितः सम्बद्धः, ग्रन्थतोऽर्थतञ्च गृहीतत्वात् । दशरथ इत्यनेन नाम्नोदाहृतो लोके गीतः । गुण्यन्तेऽभ्यस्यन्त इति गुणा: । ‘गुण आमन्त्रणे ।' इति चौरा- दिकोऽदन्तः । तस्मात् ‘अकर्तरि च कारके संज्ञायाम् ।३। ३ । ११ । ' इति घञ्, येषाम् ' एरजण्यन्तानाम् ' इति दर्शनम्, येषांतु तन्नाम्ति तेषामेरच ; स्वरं प्रति विवादो न रूपं प्रति । गुणैरभिरामत्वादिभिर्वरं श्रेष्ठं यं नृपं पितरमु- पागमादति सम्बन्धः । व्रियत इति वरः । 'ग्रहवृहनिश्चिगमश्च । ३ । ३ । ५८ इति कर्मण्यपू । केन हेतुनोपगतवान् तं पितरं सनातन इत्यत आह , - १ कवेः । २ स च इष्टदेवो विष्णुश्च | ३ 'अकारो वासुदेवः स्यात्' इत्यकारोपन्या- सात् | ४ न च तथा प्रथमं तत्कीर्तन मेव कृतम्, किंतु स सनातनो विष्णुरेव प्रतिबध्यते प्रधानत्वेन प्रस्तूयते, अनया, अत्र वेति तथोक्ता ।५ भट्टिप्रणीतायां रामचरि तापरपर्यायभूतायां कथायाम् । ६ न तु भूतविशेषे परोक्षे, तस्यापि ततोऽनतिरि- च्यमानत्वात् ।