पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । भुवनहितच्छलेनेति । भवन्त्युत्पद्यन्त इति भुवनानि । भूर्भुवःस्वरिति त्रय लोकाः । ' रजः क्युन्' इत्यनुवर्तमाने ' भूसूधूसर्जिभ्यश्छन्दास' इत्यौणा- दिकः क्युन्, बहुलवचनाद्भाषायामपि भवति, तेभ्यो हिता भुवनहिता विष्णो- देशवताराः, इह तु रामो द्रष्टव्यः । तस्य च्छलेन व्याजेन भुवनहितच्छलेन । इदानीं रावणादिकण्टकोद्धरणात् । तथा चोक्तम् -- 'परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ' इति । सत्यव्ययं सदार्थे वर्तते । सना भवतीति । ‘सायंचिरंप्राह्णेप्रगेऽव्ययभ्य- ष्टयुटयुलौ तुट् टथुलौ तुट् च । सनातनो । ४ । ३ । २३ । ' इति विष्णुरुपागमदुपजगाम । लदित्त्वादङ् । सत्स्वन्येषु राजसु गुणैर्वरत्वाद्यं पितरं जनकमंगीकृतवान्सोऽभूदिति योज्यम् । स्वयमित्यात्मना न कर्मणा- ऽन्येन वा प्रेरित इत्यर्थ. ॥ १ ॥ सोऽध्यैष्ट वेंदांस्त्रिदशानयष्ट पितॄनपारीत् सममंस्त बन्धून् । व्यजेष्ट षड्वर्गमरस्त नीतौ समूलघातं न्यवधीदरींश्च ॥ २ ॥ सोऽध्यैष्टेत्यादि — क्षत्रियस्य धर्म: अध्ययनं, यजनं, दानम्, शखाजीवो, भूतरक्षणं च । तत्र अन्तिममुभयं नृप इत्यनेनोक्तम् । भूतरक्षणे शस्त्रमङ्गम् । स दशरथनामा नृपो वेदानध्यैष्ट - अधीतवानिति स्वाध्याय उक्तः । वेद्यन्ति ज्ञापयन्ति धर्माधर्माविति वेदाः सामादयः ।' नन्दिग्रहिपचांदिभ्यो ल्युणि- न्यचः ।३।१।१३४। ' इत्यच् । इङोऽधिपूर्वस्य 'विभाषा लुङ्लङो |२|४|५०/- इति गाङ् । विभाषयति गाङभावपक्षे रूपम् । अजादित्वादाट् । 'आटश्च । ६।१।९०।' इति वृद्धिः । ङित्त्वादात्मनेपदम् । ' आदेशप्रत्यययोः |८|३|५९ | १ इति षत्वं, ष्टुत्वं च । त्रिशान्देवानयष्टाग्निष्टोमादिभिः पूजितवान् | यजन- मुक्तम् । यजेः ‘ स्वरितञितः कर्त्रभिप्राये क्रियाफले |१।३।७२। ' इति तङ् । अनिक्समीपत्वाद्धलः ‘लिसिचावात्मनेपदेषु १|२|११|' इति कित्त्वं न भवति । "ब्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । ८ । २ । ३६ ।। इति षत्वम् । ‘झलो झलि |८|२|२६|' इति सिचो लोपः ॥ पितृनपारीदाप्यायितवान् । पितृ नुद्दिश्य यजनम् 'पू पालनपूरणयोः' इत्यस्मात्पूरणार्थाल्लुङि रूपम् । 'सिचि वृद्धिः परस्मैपदेषु ।७।२।११ | इटईट ||२||२८|' इति सिचो लोपः । अथवा ‘पितॄनतासत्’ इति पाठः। 'तृप प्रीणने ।' इत्यस्माल्लुङि ‘स्पृशमृशक्लृशतृपदृपां १ अत्र रुचिर वृत्तम् ‘जभौ सजौ गिति रुचिरा चतुर्ग्रहैः' इति लक्षणात् । २ आदिपदेनर्ग्यजुरथर्वणां ग्रहणम् ।