पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीहरिः । महावैयाकरणश्रीभट्टिकविप्रणीतं भट्टिकाव्यम् अथवा- श्रीरामचरितं काव्यम् ।. श्रीजयमङ्गलोल्लासितया जयमङ्गलया व्याख्यया समुल्लसितम् । प्रथमः सर्गः । प्रणिपत्य सकलवॆदिनमतिदुस्तरंभट्टिकाव्य सलिलनिधेः ॥ जयमङ्गलॆति नाम्ना नौकेव विरच्यते टीका ॥ १ ॥ लक्ष्यं लक्षणं चोभयमेकत्र विदुषः प्रदर्शयितुं श्रीस्वामिसुनुः कविर्भट्टिनामा रामकथाश्रयं श्रीरामचरितं नाम महाकाव्यं चकार । तस्य चोपनिबन्धनं कविना द्विधा कृतम् । एकं लक्षणसूचकैः प्रकीर्णाधिकारप्रसन्नतिङन्त काण्डैश्चतुर्भिः । द्वितीयं लक्ष्यसूचकै रामसंभवादिभिर्द्वाविंशत्या सगैंः । तत्र लक्षणं द्विविधम् । शब्दलक्षणं काव्यलक्षणं च । तत्र प्रथमस्य त्रीणि प्रकीर्णाधिकारतिङन्तका-- ण्डानि, द्वितीयस्यत्वेकं प्रसन्नकाण्डम् । यत्रोच्चावचेन बहूनां लक्षणानां प्रकरण तत्प्रकीर्णकाडं, तदेव चात्र प्रथममुक्तं तस्य व्यापित्वात्; ‘ उत्तरत्रापि द्रष्टव्यम्’ इति प्रदर्शनार्थम् । अत्र यद्यप्यादौ कविना देवतानमस्कारो न कृतस्तथापष्टि- देवतासंकीर्तनमपि विघ्नोपशमनहेतुर्भवतीति मन्यमान आह -- अभून् नृपो विबुधसखः परन्तपः श्रुताऽन्वितो दशरथ इत्युदाहृतः गुणैर्वैर भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥ १ ॥ १ अतिदुस्तरो यो अट्टिकाव्यं प्रणीतं रामचरितं काव्यभेव सलिलनिधिस्तस्येति रूपकम्, नतूपमा; अतिदुस्तरत्वस्य तथैवोपपत्तेः । २ लक्ष्यमुदाहरणम् । ३ लक्ष्यते इतर- व्यावृत्ततया ज्ञायत अनेनेति लक्षणं सूत्रम्। ४ यं पितरमित्यनेनांस्य (पातीति पितेति) पितृत्वं स्वाभाविकमिति सूचितम् | ५ इदं तस्य गुणगौरवाहितं पुत्रात्मना भवने स्पृ- हित्ये हेतुरिति सूचयति ।