पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादश:- दिशि- जलद इत्यादि--प्राज्यानां प्रभूतानां रत्नानां मणीनां प्रभाभि: तडित्वा - निव जलद: प्रोन्नतात्मा सर्वेषामुपरि स्थितत्वात् । प्रतिककुभं दिशि चरिमन्द्रं मन्दगम्भीरं निस्वनम् उदस्यन्निक्षिपन् सुमेरो: शिखरमिव हैममासन- मुबैरुच्चं विविधमणिविचित्रं नानारूपैर्मणिभिर्विचित्रं नानावर्णकमध्यतिष्ठत् • समारोहति स्म ॥ ४७ ॥ इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिप्रणीते रामचरिते काव्ये तृतीये प्रसन्नकाण्डे लक्षणरूपे द्वितीयः परिच्छेदः, लक्ष्यरूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः । द्वादशः सर्गः । भाविकत्वमलङ्कारः प्रबन्धविषय उक्तः । नैकदेशिकं तस्य चित्रादयो- थी: प्रवृत्तिहेतवः । तथा चोक्तम्- -'भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षाइव दृश्यन्त यत्रार्था भूतभाविनः॥ चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता | शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥' इति । तत्सर्वे मन्त्र- निर्णयप्रबन्धे द्रष्टव्यमिति दर्शयन्नाह-- ततो विनिद्रं कृतदेवताच दृष्टयैव चित्तमशमं किरन्तम् । आविष्कृताङ्गप्रतिकर्मरम्यं विभीषणं वाचमुवाच माता ॥ १ ॥ तत इत्यादि- ततः प्रभातकालानन्तरं विभीषणं विनिद्रं प्रबुद्धम् । कृत- देवतार्च कृतेष्टदेवतापूजनम् । दृष्ट्वैव स्निग्धया कायव्यापारेण चित्तप्रशमं -फिरन्तं प्रकाशयन्तम्। आविष्कृतं प्रदर्शितं यदङ्गस्य प्रतिकर्म प्रसाधनं तेन रम्यं साता नैकपी नाम वाचं वक्ष्यमाणामुवाच ॥ १ ॥ प्रवाधमानस्य जगन्ति धीमंस्त्वं सोदरस्याऽतिमदोद्धतस्य । आनन्दनो नाकसदां प्रशान्ति वर्ण विषस्यामृतवत्कुरुष्व ॥ २ ॥ प्रबाधमानस्येत्यादि --हे धीमन् ! त्वं नाकसदां देवानाम् आनन्दनः प्रमो- दयिता सन् सोदरस्य भ्रातुदशाननस्य | गर्भावस्थायां समानमुदरं यस्येति योगविभागात्सभावः । अतिमदोद्वतस्य महत्ता सामर्थ्येन दृप्तस्य जगन्ति -लोकं प्रवाधमानस्य पीडयतः प्रशान्ति प्रशमनं तूर्णं कुरुपत्र | अमृतवत् | यथा । १ उचाचेत्यनेनैव वाचमित्यर्थस्य लब्धौ वाचमिति पुनर्वचनमधिकमेव । se