पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । (३३३) अमृतं देवानामानन्दनं विषस्य कालकूटनाम्नः सोदरस्य एकस्मिन् समुद्रोदरे स्थितत्वात् जगन्ति प्रबाधमानस्य प्रशान्तिं कृतवदिति ॥ २ ॥ कुर्यास्तथा येन जहाति सीतां विषादनीहारपरीतमूर्तिम् । स्थितां क्षितौ शान्तशिखाप्रतानां तारामिव त्रासकरी जनस्य ॥ ३ ॥ कुर्या इत्यादि- तथा तत्प्रकारमनुतिष्ठेस्त्वं येन सीतां जहाति । विषादनाहा-- रपरीतमूर्ति विषादो नीहार इव तेन परिगतदेहाम् । क्षितौ स्थितां निमग्नाम् । शान्तशिखाप्रतानां अनुज्ज्वेलवेणीबन्धाम् । जनस्य त्रासकरी भयहेतुभूताम् हेतौ टः । तारामिव । यथा काचित्तारा क्षितौ स्थिता पतिता नीहारपरीतमूर्ति शान्तशिखाप्रताना ध्वस्तरश्मिजाला लोकत्रासकरी तद्वत्तामिति भावः ॥ ३ ॥ यावन्न सन्त्रासितदेवसङ्घः पिण्डो विषस्येव हरेण भीष्मः । सङ्ग्रस्यतेऽसौ पुरुषाऽधिपेन द्रुतं कुलाऽऽनन्द यतस्व तावत् ||४|| यावदित्यादि --- यथा सन्त्रासितदेवसङ्घः विषस्य कालकूटस्य पिण्डो भीष्मोऽतिरौद्रो हरेण संग्रस्तः पतिः तद्वद्यावदसौ रावणः पुरुषाधिपेन रामेण न संग्रश्यते न विनाश्यते, तावत् हे कुलानन्द ! कुलानि आनन्दयतीति 'कर्मण्यण |३|२|१|' इत्यण् । द्रुतं शीघ्रं यतस्व सीतात्याजनायां यत्नं कुरु ॥ ४ ॥ हता जनस्थानसदो निकायाः कृता जितोत्खातभद्रुमा पूः । सदांसि दग्धानि विधेयमस्मिन् यद्धन्धुना तद्धटयस्व तस्मिन् ॥ ५ ॥ हता इत्यादि ---- जनस्थानसदो दण्डकारण्यवासिनः निकाया: खरदूषणा- दर्दानां संघा हताः । ‘संघे चानौत्तराध | ३ | ३ | ४२ ।। इति चिनोतेः घञ् ककारश्चादेशः । पूश्च लङ्का जितभटा उत्खातद्रुमा कृता । सदांसिं गृहाणि दुग्धानि । इति सर्वमेतत्त्वया ज्ञातमेव । अनेन प्रकारेण अस्माकमपि विनाश: स्यात् । तदेतस्मिन्वस्तुनि यद्वन्धुना विधेयम् अनुष्ठेयं तद्विधातुं घटयस्व यतस्व तस्मिन्वस्तुनि ॥ ५ ॥ चिकर्षिते पूर्वतरं स तस्मिन् क्षेमङ्करेऽथें मुहुरीर्यमाणः । मात्राऽतिमात्रं शुभयैव बुद्धचा चिरं सुधीरभ्यधिकं समाधात् ॥ ६॥ १ 'आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः । इत्यमरोक्त्या विशेष- याचित्वेऽपि सामान्य वाचित्वमभिप्रेतम् ।