पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्न काण्डम् | ( ३३१ ) निराकरिष्णुरित्यादि-दशास्यो विबुद्धः सन् अतिमोहादत्यन्ताज्ञानातू निराकरिष्णुर्निराकरणशील: । द्विजवरानित्यर्थात् । द्विजकुञ्जराणां प्रशस्त- द्विजानामभ्युदयहेतूनां संबन्धिनोऽशेषाः गुणाः तृणीकृता येन स तृणी- कृताशेषगुणः प्राक् पूर्व सभाप्रवेशात् पापाशयान् पापचित्तवृत्तीन् ब्रह्मरक्षः- प्रवरान् अभ्युदयार्थमार्चीत् ॥ ४४ ॥ मायाविभिस्त्रास करैर्जनानामाप्तैरुपादानपरैरुपेतः । --- सतां विघातकर सैविक्षत्सदः परिक्षोभितभूमिभागम् ॥ ४५ ॥ मायाविभिरित्यादि —— आतैरव्यभिचारिभिर्मायाविभिर्वश्चकैः परेषां त्रास- करैः । जनानामतिरौद्रत्वात् । उपादानपरैः सतां सन्मार्गस्थितानां विघातक- सैर्विनाशैकस्वभावैः उपेतो दशास्यः सदः सभामविक्षत् प्रविष्टः इगुपधादनिटः क्सः |३|१|४५ | इति सः । कीदृशम् | राक्षसैश्चरणभागा परिक्षोभितभूमिभागम् ॥ ४५ ॥ । 'शल विधृतनिशित शस्खैस्तद्युतं यातुधाने- रुरुजठरमुखीभिः सङ्कलं राक्षसीभिः । श्वगणिशतविकीर्ण वागुरावन्मृगीभि वनमिव सभयाभिर्देवबन्दीभिरासीत् ॥ ४६॥ गृहीततीक्ष्ण-- विधतेत्यादि-तत्सदो यातुधान: विवृतनिशितशस्त्रैः शस्त्रैर्युतं युक्तमासीत् । तथा राक्षसीभिः उरुजठरमुखीभिः संकुलं व्याप्तं यथा वनं वागुरावत् सवागुरं श्वगणिशतविकीर्णम् आखेटकशतच्छन्नं मृगीभिः सभयाभिः श्वगणिभ्यो जातभयाभिः देवबन्दीभिः व्याप्तमासीत् । श्वगणक विद्यन्ते येषामिति श्वगाणन: । 'अत इनिठनौ |५|२|११५॥' इतीनिः ॥ ४६ जलद इव तडित्वान् प्राज्यरत्नप्रभाभिः प्रतिककुभमुदस्यन् निस्वनं धीरमन्द्रम् | शिखरमिव सुमेरोरासनं हॅममुच्चै विविधमणिविचित्रं प्रोन्नतं सोऽध्यतिष्ठत् ॥ ४७ ॥ इति भट्टिकाव्ये एकादशः सर्गः । १ अस्मिन्परस्मिंश्च पधे 'मालिनी' वृत्तम् ।