पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३३०) भट्टिकाव्ये जयमङ्गलासमेते- [ एकादश:- वसानयोर्विसर्जनीयः | ८|३|१५|' इति विसर्जनी ये 'विसर्जनीयस्य सः | ८ | ३|३४|१ इति स अवज्ञया अनादरेण परुषमस्निग्धं यदक्षि तेनाक्ष्णा दृष्टाः ॥ ४० ॥ गुरूरु चञ्चत्कर कर्णाजैरवज्ञयाग्राऽङ्गुलिसंगृहीतैः । रक्षांस्यनायासहतैरुपास्थुः कपोललीनाऽलिकुलैगजेन्द्रैः ॥ ४१ ॥ गुरूरुचञ्चदित्यादि--गुरवोऽलघवः उरवो महान्तः, कराः कर्णा जिह्वाञ्च येषां गजेन्द्राणां तैः अवज्ञया अप्राङ्गुलिसंगृहीतैः पादा- गुष्ठाग्रेण यत्र स्थाने परिगृहीतैः। अङ्गुलेरग्रमिति राजदन्तादित्वात् पूर्वनिपातः । अनायासहृतैः शनैः शनैः प्रचोदितैः । मत्तत्वात् कपोललीनाऽलिकुलैः १ रक्षांसि उपास्थुः सेवामकार्षुः ॥ ४१ ॥ चञ्चन्तश्चलन्त: निकृत्तमत्तद्विपकुम्भमांसः सम्पृक्तमुक्तैहर्रयोऽग्रपाः । आनिन्थिरे श्रेणिकृतास्तथाऽन्यैः परस्परं वालधिसन्निवद्धाः ॥४२॥ निकृत्तेत्यादि — अन्यैः सेवार्थी हरयः सिंहाः आनिन्थिरे आनीताः । निकृत्तांनि मत्तद्विपकुम्भमांसानि यैरग्रपादैः अतएव संपृक्तमुक्तैः लग्नकुम्भ- मुक्ताफला उपलक्षिताः । श्रेणिकृता अश्रेणयः श्रेणयः कृताः 'श्रेण्यादयः कृतादिभिः |२|१|५९|' इति समासः । 'श्रेण्यादिषु च्व्यर्थवचन कर्त्तव्यम् ।” इति व्यर्थवचनम् ।' परस्परं वालधिसंनिबद्धाः अन्योन्यस्य पुच्छेन संयताः ॥ ४२ ॥ उपेक्षिता देवगणै स्त्रसद्भिनिशाचरैवत भयौनिकृत्ताः । तस्मिन्नदृश्यन्त सुरद्रुमाणां सजालपुष्पस्तव काः प्रकीर्णाः ॥ ४३ ॥ उपेक्षिता इत्यादि —सुरद्रुमाणां पारिजातानां सजाला: कलिकासहिताः पुष्पस्तवकाः वीतभयैनिशाचरौर्नकृत्ताः छिन्नाः । 'वीतदयैः' इति पाठान्तरम् । तत्र किमेतः स्थितैरिति निर्दयैः सजाला एव छिन्नाः छिद्यमानाश्च | देवगणे - स्त्रसद्भिरुपेक्षिताः 'वा भ्राशभ्लाशभ्रमुक्रमुक्कुमुत्रसित्रुटिलषः ||३|१२|७० | इति विकल्पेन श्यन् । तस्मिन् राजाङ्गने प्रकीर्णा अदृश्यन्त सेवकजनेन || ४३ ॥ निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताऽशेषगुणोऽतिमोहात् । पापाऽशयानभ्युदयाऽर्थमाचत् माग्ब्रह्मरक्षःप्रवरान् दशाऽऽस्य ॥ ४४॥ १ एवं च 'चौ च ७ । ४ । २४' इति पूर्वस्य दीर्घत्वानुपपादनं युक्त मेव, अन्यथा उन्दोभङ्गापत्तेः ।