पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | ( ३२३ ) रताऽऽदौ । आलिङ्गितायाः सहसा त्रपावांस्त्रासाऽभिलाषाऽनुगतो विश्वासिताया रमणेन वध्वा विमर्दरम्यो मदनो बभूव ॥ १३ ॥ - आलिङ्गिताया इत्यादि - - कस्याश्चिद्वध्वा रतात्प्राक् रमणेन सहसा तत्क्षणं आलिङ्गितायास्त्रपावान्मदनो बभूव | रतादौ रतारम्भे त्रासाभिलाषाभ्यामनु- गतो बभूव । विश्वासिताया: शनैर्विश्वास कारिताया: विमर्दरम्यो बभ्रुव, त्रासाभावात् ॥ १३ ॥ सामोन्मुखेनाऽऽच्छुरिता प्रियेण दत्तेऽथ काचित्पुलकेन भेदे । अन्तःप्रकोपाऽपगमाद्विलोला वशीकृता केवलविक्रमेण ॥ १४ ॥ सामोन्मुखेनेत्यादि- -अथ काचित्कोपान्मानवती प्रियेण सामोन्मुखेन सामपरेण प्रसादयता आच्छुरिताख्येन नखकर्मणा संस्पृष्टा सती पुल- केन रोमाञ्चेन भेदे उद्गमे दत्ते सति अथ अन्तःप्रकोपस्थापगमात् विलोला विलोलबुद्धि: केवलविक्रमेण हठाद्रहणेनैव वशीकृतोप- भुक्तेत्यर्थः ॥ १४ ॥ गुरुदधाना परुषत्वमन्या कान्ताऽपि कान्तेन्दुकराऽभिमृष्टा । महादिता चन्द्रशिलेव तूर्ण क्षोभात्स्त्रवत्स्वेदजला बभूव ॥ १५ ॥ । दधाना शुरु रित्यादि -- अन्यापि काचित् स्त्री कान्ता कमनीयरूपा गुरुः धीरा ! 'वोतो गुणवचनात् |४|१॥४४॥ इति वा ङीष् न भवति परुषत्वं नैष्टुर्यम् । कान्तेन भर्त्रा इन्दुनेव कराभिमृष्टा सती प्रह्लादिता सुखिता । क्षोभात् चेतसो विकारात् तूर्ण स्रवत्स्वेदजला बभूव | चन्द्रशिलेव चन्द्रमणिरिव | सा गरीयसी कान्ता परुषत्वं काठिन्यं दधाना इन्दुना कराभिमृष्टा प्रह्लादिता सुखितेव क्षोभात्स्वप्रकृतिविकारात् स्रव जला अवति ॥ १५ ॥ शशाङ्कनाथाऽपगमेन धूम्रां मूर्च्छापरीतामिव निर्विवेकाम् । ततः सखीवं प्रथिताऽनुरागा प्राबोधयद्यां मधुराऽरुणश्रीः ॥ १६॥ शशाङ्केत्यादि -- ततोऽनन्तरं यथा काचित् स्त्री नाथस्य सर्तुरपगमेन वियोगेन धूम्रा मलिना मूर्च्छापरीता निश्चेतना अत एव निर्विवेका विक्कुमशक्ता सती संख्या प्रकाशितस्नेहया प्रबोध्यते तद्वद् यामाकाशं शशाङ्क - १ भत्रोपरा | .