पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३२४) (भट्टिकाव्ये जयमङ्गलासमेते- [ एकादश:- नाथस्यापगमनेन अस्तमनेन धूम्रां धूसरतां गतां निर्विवेकाम् अविद्यमान- विशेषाम् अरुणश्रीः आदित्यलक्ष्मीरिति मधुराभिनवा प्रथितानुरागा प्राबो- धयत्प्रकाशितवती ॥ १६ ॥ अवततृष्णोऽथ परस्परेण क्षणादिवाऽऽयातनिशाऽवसानः | दुःखेन लोकः परवानिवाऽगात् समुत्सुकः स्वमनिकेतनेभ्यः॥ १७ ॥ अवीतेत्यादि----अथानन्तरं लोकः परस्परेणान्योन्येन दयितो तया दयितापि दयितेन अवीततृष्णः अनपगतसंभोगाभिलाषः अत एव दयि - क्षणादिव द्रुतमिवायातं निशावसानं यस्य परवानिवं पराधीन इव स्वप्ननिकेतनेभ्यः वासगृहेभ्यो दुःखेन अगात । समुत्सुकः उत्कण्ठितः निर्गतवान् ।। १७ ।। अर्धोत्थिताऽऽलिङ्गितसन्निमग्नी रुद्धः पुनर्यान् गमनेऽनभीप्सुः । व्याजेन निर्याय पुनर्निवृत्तस्त्यक्ताऽन्यकार्यः स्थित एव कश्चित् १८ अधोत्थितेत्यादि---शयनात् अर्घमुत्थितं यस्येत्यर्धोत्थितः । आहिताभ्या- दिषुं द्रष्टव्यः । शयनस्य वा अर्धादुत्थित इति योज्यम् । स चालिङ्गितो दयितया सन्निमग्नः शयने सुप्तः। पुनर्यान्निर्गच्छन् रुद्रो विवृतः । गमने अभीप्सुरपि निर्याय व्याजेन निमित्तेन पुनर्निवृत्तः प्रविष्टस्त्यक्तान्यकार्यः स्थित एक कश्चित्कामी ॥ १८ ॥ तालेन सम्पादितसाम्यशोभं शुभाऽवधानं स्वरबद्धरागम् | पदैर्गतार्थ नृपमन्दिरेषु प्रातर्जगुर्मङ्गलवत्तरुण्यः ॥ १९ ॥ तालेनेत्यादि---नृपमन्दिरेंषु रावणादिराजवेश्मसु प्रभातकाले तरुण्यो मङ्ग- लवत् मङ्गलोपेतं जगुः गायन्ति स्म । तालेन क्रियाकालमानेन संपादिता साम्य- शोभा यत्र गायनक्रियायाम्, शुभावधानं शोभनमवधानं चित्तैकाग्रता यत्र, स्वर बद्धरागं षड्जादिभिः स्वरैर्वद्धो ग्रामरागो यत्र, पदैः सुप्तिङन्तर्गतार्थं परिच्छि- नार्थं निरर्थकपदरहितमित्यर्थः । अनेन स्वरगतं पद्गतं लयगतमवधानगत - मिति चतुर्विधं गीतमाख्यातम् ॥ १९ ॥ दुरुत्तरे पङ्क इवान्धकारे मनं जगत्सन्ततरश्मिरज्जुः | प्रनष्टमूर्तिप्रविभागमुद्यन् प्रत्युजहारेव ततो विवस्वान् ॥ २० ॥ दुरुत्तर इत्यादि---अन्धकारे पङ्क ईव दुरुत्तरे दुःखेनोत्तीर्यंत इति मन १ अत्रोपमा | २ अनेन साम्यवचनेनान्धकारस्य निविडत्वं व्यज्यते ।