(३२२) भट्टिकाव्ये जयमङ्गलासमेते- [ एकादश:- स्वस्ताऽङ्ग चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बुरोमोद्गमगम्यजीवः ॥ अशेषनष्टप्रतिभापटुत्वो गाढोपगूढो दयितैर्जनोऽभूत् ॥ ९ ॥ - स्रस्ताइन्वेष्ट इत्यादि - दयितैर्गाढोपगूढः आलिङ्गितः सन् स्त्रीजन: अशेपनष्ट प्रतिभापटुत्वोऽभूत् । अशेषं नष्टं प्रतिभाया बुद्धेः पटुत्वं यस्येति एवं च कृत्वा – स्रस्ताङ्ग चेष्टोऽपगतकायव्यापारः विनिमीलिताक्षः सुखा- नुभवान्निमीलितलोचनः । मृतस्तहत्याह- स्वेदाम्बुरोमोद्गमगम्यजीवः स्वेदाम्बु- रोमोगमाभ्यां लिङ्गाभ्यां गम्यमानसंज्ञः ॥ ९ ॥ तमः प्रसुप्तं मरणं सुखं नु मूर्छा नुमाया नु मनोभवस्य । किं तत्कथं वेत्युपलब्धसञ्ज्ञा विकल्पयन्तोऽपि न सम्प्रतीयुः ॥ १० ॥ तम इत्यादि--कामुका अपि परेतावस्थाया उत्तरकालमुपलब्ध संज्ञा विक- स्पयन्ति । तमो नु किमन्धकारं, प्रसुप्तं न किं प्रकर्षेण सुप्तम्, मरणं नु मरणा- • चस्था नु, सुखं नु, मूर्च्छा नु, मनोभवस्य वा मायेति किं तद्भवति । कथं वा · क्रेन प्रकारेण तत्स्यात् । इत्येवं विकल्पयन्तोऽपि न संप्रतीयुः । न परमार्थ ज्ञात- चन्त इत्यर्थः ।। १० ।। वक्षः स्तनाभ्यां मुखमाननेन गात्राणि गात्रैर्घटयन्नमन्दम् । स्मराऽनुरो नैव तुतोष लोकः पर्याप्तता प्रेम्णि कुतो विरुद्धा ॥११॥ वक्ष इत्यादि-वक्षोमुखगात्राणि स्वाति स्तनादिभिः स्त्रीसम्बन्धिभिर्घटयन् संश्लेषयन् अमन्दं दृढम् । 'ङमो ह्रस्वादचि ङमुनित्यम् | ८|३||३२|' इति नुडा- -मः । स्मरातुरो लोको नैव तुतोष तुष्टिं न जगाम । यतः पर्याप्तता प्रेम्णि कुते विरुद्धा | नैव तस्या विरुद्धत्वात् ॥ ११ ॥ स्त्रस्ताऽङ्गयष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी । अनूढमाना शयने नवोढा परोपकारैकरसैव तस्थौ ॥ १२ ॥ स्वस्ताङ्गयष्टिरित्यादि - काचिन्नवोढा परिरभ्यमाणा पत्या आलिङ्गधमाना सस्ताङ्गयष्टिः न प्रतीपमालिङ्गति | संदृश्यमानापि मुखमुन्नमय्य उपसंहृताक्षी निमीलितलोचना न प्रतीपं पश्यति मानं नैवाचरतीति। अनूढमानापि असंहृत- मानापि एवंविधापि सती परोपकारैकरसैव तस्थौ । भर्तुरुपकारकाभिप्रायैक अवस्थितां नात्मोपकाराय ।। १२ ।।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६०
दिखावट