पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | ( ३२१ ) ततः समाशङ्कितविप्रयोगः पुनर्नवीभूतरसोऽवितृष्णः ॥ स्मरस्य सन्तं पुनरुक्तभावं नाऽऽवर्तमानस्य विवेद लोकः ॥ ६ ॥ तत इत्यादि - - प्रेमद्रुमरोहणानन्तरं लोकः समाशङ्कित विप्रयोगो विप्र- योगोऽस्माकमासन्नवतीति पुनर्नवीभूतरसः अभिनवीभूतसुरतेच्छः स्मरस्य कामस्य आवर्तमानस्य पुन: पुन: प्रवर्तनात् । अवितृष्ण: साभिलाषः सन्त- मपि विद्यमानमपि पुनरुक्तभावं पौनःपुन्यं न विवेद न बुबोध | आशाङ्कत- विप्रयोगत्वादपूर्वमिव ज्ञातवानित्यर्थः ॥ ६ ॥ वृत्तौ प्रकाश हृदये कृतायां सुखेन सर्वेन्द्रिय सम्भवेन । संकोच मेवाऽसहमानमस्थादशक्तवद्वञ्चितमानि चक्षुः ॥ ७ ॥ वृत्तावित्यादि - सुरतकाले श्रोत्रत्वक्चक्षुर्जिह्वाव्राणानाम् इन्द्रियाणां शब्द- स्पर्शरूपरसगन्धग्रहणात् सर्वेन्द्रियसंभवं सुखम् । अथवा सर्वमिन्द्रियं यत्रेति सर्वेन्द्रियः काय: । तत्संभचं सुखं सर्वेन्द्रियसंभवम् सुखं तथाह्यालिङ्गन- चुम्बनदर्शनच्छेदनेषु पुरुषोपसृष्टेषु तत्र प्रयुज्यमाने कार्य सुखमुत्पद्यते। तेन सुखेन हृदय चेतसि प्रकाशं स्पष्टं वृत्ता कृतायां चक्षुर्वश्चितमिवा त्मानं मन्यमानम् । आत्ममाने खञ्च |३|२३|| इति णिनिः । संको- चमेव निमीलन मेवास्थात् अनुष्ठितवत् । अमहमानमिति सर्वेन्द्रयसंभवस्या - सुखस्य हृदये वृत्तिं सोदुमपारयदित्यथः । अशक्तवत् यथा कश्चिदसमथों- ऽन्यसम्भवां संपदं सोढुमसहमानः संकोचमनुतिष्ठति ।। ७ ।। पनि भटस्योरसि वीक्ष्य भुग्नास्तनुत्वचः पाणिरुहान्सु मध्या | इच्छाविभङ्गाऽऽ लमान सत्वाद्भर्त्रे नखेभ्यश्च चिरं जुजूरे ॥ ८ ॥ पीन इत्यादि - काचित् सुमध्या सुमध्यमा नखैः व्यापद्यमाना अहम - प्यस्य क्षतं विधास्यामीति भटस्यारसि पनि कठिनं भुग्नान् कुश्चितान् । 'भग्नान्' इति पाठान्तरम् । पाणिरुहान्नखान् वीक्ष्य भन्र्त्रे नखेभ्यश्च चिरं जुजूरे क्रुध्यात स्म । कथमस्य वक्षः कठिनं मम च नखास्तनुत्वचो न कठिना इात । 'घूरी जूरी हिंसावयोहान्याः' इत्यस्यात्मनेपदिनो रूपम् ।। 'दुहेर्ष्याऽसूयाऽर्थानां यं प्रति कोपः | १२|७४ | ३७११ इति सम्प्रदानसंज्ञा । कस्मा- ज्जुजूर इत्याह--इच्छाविभङ्गाकुलमानसत्वात् । चिकीर्पिता करणेनाकुलचित्त-- त्वात् ॥ ८ ॥ २१