पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२० ) भट्टिकाव्ये जयमङ्गलास मे ते- [ एकादश:- दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दु विहितोपकारम् । बानुरागोऽनु पपात तूर्णं तारागणः सम्भृतशुभ्रकीर्तिः ॥ २ ॥ दूरमित्यादि -- दूरं दिव आकाशस्य भागं समारुह्य पश्चात्तत एत्राकाशात भृगोरिव प्रपातादिव पतन्तमिन्दुं तारापतिमनु पश्चात् तारागण: विहितोप- कारं तदुदयेन तारागणाप्यायनात् बद्धानुरागः अस्तगमनकाले अनुगतरक्त- आवः संभृता विपुलीकृता शुभ्रा निर्मला कीर्तिर्येन स तारागण: पपात | यथा कस्मिंश्चित्स्वामिनि भृगोः पतति पश्चात्स्वामिभक्त्या भृत्यलोको बद्धा- नुरागः संभृतशुभ्रकीर्तिः पतति तद्वदिति ॥ २ ॥ क्व ते कटाक्षाः क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा । लङ्काऽङ्गनानामवबोधकाले तुलामनारुह्य गतोऽस्तमिन्दुः ॥ ३ ॥ क व इत्यादि --ये कटाक्षाः सविलासास्तिर्यग्दृष्टयः यानि च प्रोकानि अल्पितानि विलासवन्ति, तदुभयं क्व मम विद्यते । लङ्काङ्गनानां तु मुखेन्दवः सकटाक्षाः सविलासाः सजल्पिताश्च । अतो यावन्न विबुद्धयन्ते तावदपक्रमणं युक्तमिति मत्वा निरूप्य तुलामनारुह्य समानतामलव्ध्वा निःसंशयो वा भूत्वा । तत्प्रबोधकाले । लङ्काङ्गनानामेव । गतोऽस्तमिन्दुः ॥ ३ ॥ मानेन तल्पेष्वयथामुखीना मिथ्याप्रसुप्तैर्गमितत्रियामाः । स्त्रीभिर्निशाऽतिक्रमविह्वलाभिर्दृष्टेऽपि दोषे पतयोऽनुनीताः ॥ ४ ॥ मानेनेत्यादि — पतयस्तल्पेषु शयनीयेषु शय्यास्विति यावत् । मानेनायथा-- मुखीनाः परावृत्तमुखाः । 'यथामुखसंमुखस्य दर्शनः खः |५|२|६|| इति खः । परावृत्तत्वात् प्रतिबिम्बाश्रयवत्तेषु योषितां प्रतिबिम्बमिव मनो न प्रसादी- भवतीत्येवं मिथ्या प्रसुप्तैरलीकनिद्राभिः गमितत्रियामा: प्रेरितप्रथमादिप्रहराः । दो गोत्रस्खलितादौ । पतयः स्त्रीभिरनुनीता यतो निशातिक्रममा- त्पर्यवसानात् विकुवा विह्वलास्ताः ॥ ४ ॥ ईर्ष्याविरुग्णाः स्थिरबद्धमूला निरस्तानःशेषशुभ प्रतानाः । आप्यायिता नेत्रजलप्रसकैः प्रेमद्रुमाः संरुरुहुः प्रियाणाम् ॥ ५ ॥ इर्ष्याविरुग्णा इत्यादि-प्रियाणां प्रेमद्रुमाः प्रेमाणि द्रुमा इन । स्थिर निश्चलं बद्धमूलम् उत्पत्तिकारणं येषां ते ईर्ष्याविरुग्णा अत एव निरस्ता: निःशेषा: शुभ एव हसितजस्पितादयः प्रताना शाखा येषां ते [प्रसादनानन्तरं नेत्रजलप्रसेकै राप्यायिताः संरुरुडः, पुनर्नवीभूताः स्थिरबद्ध- मूलत्वात् ॥ ५ ॥ -