पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] प्रसन्नकाण्डम् | (३१९) सौमित्रेरित्यादि —— इत्येवं सौमित्रे: लक्ष्मणस्य वचनं निशम्य श्रुत्वा · रामो जृम्भावान् जातजृम्भिकः । जृम्भणं जृम्भा | 'गुरोच हलः |३|३|१०३।१ इत्यकार: | टापू । निद्रान् निद्रां गच्छन् । 'द्रा कुत्सायां गतौ ।। इत्यस्यादादिकस्य निपूर्वस्य शतरि रूपम् । शिशयिषया शयितुमिच्छया । मुजयुगलं विभज्य एकं शिरःस्थाने न्यस्य द्वितीयं शरीरस्योपरि प्रसार्येत्यर्थः । 'विभुज्य' इति पाठान्तरम् । तत्र क्रोडभागे वक्रीकृत्येर्थः । प्रवालतल्पं पल्लवशय- नीयम् अध्यष्ठात् अधिष्ठितवान् । 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु १२।४।७७|' इति खिचो लुक् । 'प्राक् सितादत्र्यवायेऽपि |८|३|६३ || इति बत्वम् । समुद्रदिदृक्षया नियमपूर्व सुष्वापेत्यर्थः । रक्षायै रक्षानिमित्तं लवङ्गानादिशन् नियोजयन् । प्रतिदिशं दिशि दिशि | 'अव्ययीभावे शरत्प्रभृतिभ्यः १५|४|१०७।' इति टच् । तत्र दिशब्दस्य पठितत्वात् ॥ ७५ ।।

इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्याया समलं- कृते श्रीभट्टिप्रणीते रामचरिते काव्ये तृतीये प्रसन्नकाण्डे लक्षण- रूपे प्रथमः परिच्छेदः, तथा लक्ष्यरूपे कथानके 'सीता- भिज्ञानदर्शनं' नाम दशमः सर्गः । एकादशः सर्गः । माधुर्यमपि काव्यस्य गुण उक्तः । तथा चोक्तम्- 'श्राव्यं नातिसमस्तार्थ `काव्ये मधुरमिष्यते ।' इति । तत्प्रदर्शनार्थ लङ्कागतप्रभातवर्णनमधिकृत्याह- अथाऽस्तमासेदुषि मन्दकान्तौ पुण्यक्षयेणेव निधौ कलानाम् । समाललम्बे रिपुमित्रकल्पैः पद्मः प्रहासः कुमुदैविषादः ॥ १ ॥ अथेत्यादि – अथानन्तरं कलानां निधौ चन्द्रमसि अस्तं पर्वतमासेदुषि गतवति । यथा कस्मिंश्चित् पुण्यक्षंयेणावसानमा सैदुषि । 'भाषायां सदवस- वः |३|२|१०८|' इति लिट: कसुरादेशः । मन्दुकान्तावित्यस्तगमने पूर्वलिङ्गं दर्शयति । रिपुकल्पैः पद्मः प्रहासः विकाशः, मित्रकल्पैः कुमुदै - विषाद: संकोच: समाललम्बे समालम्बितेः ॥ १ ॥ १ अत्र सर्गे 'उपजातिः' छन्दः ।