पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- हेतुः । अधिगतमहिमा मनुष्यलोके बत सुतरामवसीदति प्रमादी । गजपतिरुरु शैलशङ्गवर्मा गुरुरवमजति पङ्कभाङ न दारु ॥ ७३ ॥ अधिगतमहिमेत्यादि----मनुष्यलोके योऽधिगतमहिमा प्राप्ताधिपत्यः स "अमादी शोकादिषु प्रमादवान् चत कष्टमवसीदति न कार्यसमर्थो भवति । कुत एतदित्याह --- गजपतिः उरुशैलशृङ्गवमी महाशैलशृङ्गप्रमाणं व चपुर्यस्य सः | पङ्कभाक् पङ्कं भजतीति । 'भजो विः | ३|२|६२|| इति ण्विः । पकमवतीर्णः सन् अवमज्जति अवसीदति । यस्माइसौ गुरुः, न पुनरु काष्ठं, तस्मान्मुञ्च शोकम् | हेतुरिति गजपतेर्हेतुद्वारेण निर्देशात् । अग्रम - र्थान्तरो द्रष्टव्यः ॥ ७३ ॥ ( ३१८ ) [ दशमः - निपुणम् | बोद्धव्यं किमिव हि यत्त्वया न बुद्धं किंवा ते निमिपितमप्यबुद्धिपूर्वम् । लब्धात्मा तव सुकृतैर निष्टशङ्की - स्नेहौवो घटयति मां तथापि वक्तुम् ॥ ७४ ॥ बोद्धव्यमित्यादि - किमिव तद्बोद्धव्यं ज्ञातव्यमस्ति नैवेत्यर्थः । यत्त्वया न बुद्धं बुद्धया विज्ञेयं तव किंचिच्चोष्टितमपि नोपेक्षापूर्वकं यतो निमिषितमध्य- क्ष्णोर्निमीलनमपि अबुद्धिपूर्वकं नैवेत्यर्थः । यद्येवं किमित्यस्मानुप- दिशसीत्याह – लब्धात्मेति । तथापि सुकृतैलब्धात्मा लब्धजन्मा स्नेहौघः स्नेहसमूहः । अनिष्टशङ्की अनिष्टशङ्कनशीलः । मां वक्तुं बदेति । घटयति । निपुणमिति अर्थावगाढत्वादस्य चोदात्तेऽन्तर्भावो द्रष्टव्यः । भाविकत्व- उमित्यलंकार उक्तः । तद्बन्धविषयत्वात्पृत्थक प्रदर्शयिष्यति ॥ ७४ || सौमित्रेरिति वचनं निशम्य रामो ज़म्भावान्भुजयुगलं विभज्य निद्रान् । अध्यष्ठाच्छिशयिषया प्रवालतल्पं रक्षायै प्रतिदिशमादिशन्प्लवङ्गान् ॥ ७५ ॥ इति भट्टिकाव्ये दशमः सर्गः । १ अस्य प्रकाशमते काव्यलिङ्ग एवान्तर्भावः । २ नास्यालङ्कारत्वं प्रकाशकारःदयो मन्वंत ! ३ अत्र परत्र च 'महर्षिणी' वृत्तम् । 'नौ जौ गस्त्रिदशयतिः ग्रहर्षिणीयम् इति तल्लक्षणम् ।