पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (३१७ इति रूपका- मिव गतमित्युत्प्रेक्षायोगात, 'विटपिनिराकृतचन्द्ररश्म्यराती' न योगात् । तथा चोक्तम् -- 'लिष्टस्यार्थेन संयुक्तः किंचिच्चोत्प्रेक्षया न्वितः । रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ||' इति । 'विटपितिरस्कृत चन्द्र- रश्मियोगः' इति पाठान्तरम् । तत्र रूपकार्थो नास्तीति असंपूर्णलक्षणता ।। ७०।३। संसृष्टिः । अथ नयनमनोहरोऽभिरामः स्मर इव चित्तभवोऽप्यवामशीलः । रघुसुतमनुजो जगाद वाचं सजलघनस्तनयित्नुतुल्यघोषः ॥ ७९ ॥ - अथेत्यादि — अथ चन्द्रदर्शनानन्तरं रघुसुतं राममभिरामः कामाभिभूत- त्वादाभिमुख्येन रम्यत इति । अनुजः कनीयान् भ्राता वाचं वक्ष्यमाणो जगाद गदितवान् | नयनमनोहर : प्रेक्षणीय इत्यर्थः । अत्र नयने मन---- आवर्जयन नयनमनोहर इति तुल्ययोगिता | न्यूनस्य लक्ष्मणस्याधिकेन सहाभिरमणीयगुणसाम्यविवक्षया अभिरमणतुल्यक्रियायोगात् । स्मर इव चित्तभवोऽपि तस्य चेतसि सदा भवतीति लिष्टम् । तथाप्यवामशीलो- उप्रतिकूल इति विरोध: । स्मरस्तु वामशीलः | सजलघनस्तनयित्नुना शब्देन तुल्यो घोषो यस्य | संसृष्टिरित बह्वलंकारयोगात् । तथा चोक्तम्-- 'पराभिभूता संसृष्टिर्बह्वलंकारयोगतः । रचिता रत्नमालेव सा चैवं कथ्यते व्यथा ||' इति ।। ७१ ॥ आशीः । पतिवघपरिलुप्तलोलकेशीर्नयन जलाऽपहताऽञ्जनौष्ठरागाः । कुरु रिपुवनिता जहीहि शोकं क्व च शरणं जगतां भवान् क मोहः ७२ पतीत्यादि --पतिवधेन परिप्ता भ्रष्टा लोला: केशा यासां रिपुवनि- तानाम् । नयनजलेनाश्रुणा अपहृतमञ्जनमोष्ठरागश्च यासां ताः मन्दोदरी- प्रभृतीः कुरु । शोकं जहीहीत्याशंसे । किं व भवान् जगतां शरणमाश्रयः क्व च मोह इति । आँशीरिति इष्टस्याशंसनात् । तथा चोक्तम्- 'आशी- रिति च केषांचिदलंकारतया मता । सौहृदस्याविरोधोक्तौ प्रयोगोऽस्या तद्यथा ।। ' इति ।। ७२ ॥ १ 'सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।' २ नैतस्यालङ्कारत्वं प्रकाशकारण दयोऽभिप्रयन्ति ।