(३१६) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः - क्षणं शशाङ्के शशाङ्कविषये रघुतनयोऽभूदित्यर्थात् द्रष्टव्यम् न च चन्द्रं निश्चिकाय निश्चिनोति स्म ।' विभाषा चेः |७||३|५८|' इति कुत्वम् । ससन्देह इति अशनिशरवर्षाभ्याम् उपमेयस्य चन्द्रस्य तत्त्वम् अशनिशर वर्षमिति प्रयोक्तु- रभिधानात् । कुतो निरभ्रे तदप्यशार्ङ्गमिति पुनरुपमानोपमेययोर्भेदाभि- नात् न निश्चिका चन्द्रमिति स्तुत्यर्थ सन्देहवचोऽभिधानाच्च । तथा चांक्तम्- 'उपमानोपमेयस्य तत्त्वं च वदतः पुनः । ससन्देहवचः स्तुत्यै ससन्देहं विदुर्यथा ||' इति ॥ ६८ ॥ अनन्वर्यः । कुमुदवनचयेषु कीर्णराईमः क्षततिमिरेषु च दिग्वधूमुखेषु । वियति च विललास तद्वदिन्दुर्बिलसति चन्द्रमसो न यद्वदन्यः ॥६९॥ - कुमुदवनचयेष्वित्यादि — कुमुवनानां चयेषु समूहेषु, दिग्वधूमुखेषु वियति च, क्षततिमिरेषु खण्डिततमः सु यतस्तेषु विकीर्णराश्म: क्षिप्तमयूखः विललास तद्वदिन्दुः शोभते स्म । चन्द्रमसः सकाशात् अन्यो यद्वद्यथा न विल- सति तथा विललास | इदमुक्तं भवति । इन्दुर्विललास चन्द्र इवेति । अन- न्वय इति सत्सदृशस्य साम्यस्याविवक्षातश्चन्द्रस्योपमानोपमेयत्वात् । तथा चोक्तम्- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता | सादृश्यस्याविवक्षातस्तमि- त्याहुरनन्वयम् ॥' इति ।। ६९ ।। उत्प्रेक्षाऽवयवः । शरणामिव गतं तमो निकुञ्जे विटपिनिराकृत चन्द्ररश्म्यरातौ । पृथुविषमशिलाऽन्तरालसंस्थं सजलवन द्युति भीतवत्ससाद ॥ ७० शरणमित्यादि- पृथुविषमशिलानां यान्यन्तरालानि तेषु संस्थं सतिष्ठ- मानं सत्तमः निकुञ्जे गहने विटपिभिर्निराकृताश्चन्द्रस्य रश्मय एवारातयो यस्मान्निकुञ्जात् तस्मिन् ससाद विलीनं शरणमिव । यथा कश्चित् भीतो दुर्गे निलीयते । सजलस्य घनस्येव द्युतिर्यस्य तमसः तत् । उत्प्रेक्षावयव इति । भीतवत्ससादेति उपमाश्लेषलक्षणस्य लिष्टस्यार्थेन योगात् शरण- १ उत्प्रेक्षनैकदेशवर्तिनी चेनदोत्प्रेक्षावयव इति ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५४
दिखावट