सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१३) सर्ग: ] प्रसन्नकाण्डम् | गिरीत्यादि --- गिरिभिः परिगताः संसृष्टाः चञ्चला विलोला आप बान्ता नद्यन्ता यस्मिन् जलनिवहे तं जलनिवहं दधतं धारयन्तं समुद्र- मीयुः । कीदृशमिव जलनिवहम् । रामं भर्तारं विलोक्य हृष्टाया इत्यर्थ- प्राप्तम् । ततश्च पूर्वकाले क्त्वा । भुवः पृथिव्या इव धरणिधरस्तनयोः शुक्लचीनपट्टमिव गलितम् । उपमारूपकमिति । तथोक्तम्---'उपमानस्य तद्भावमुपमेयस्य रूपयन् । यो वदत्युपमाभेदमुपमारूपकं यथा ||' इति ||६१॥ तुल्ययोगिता । अपरिमितमहाद्भुतैर्विचित्रश्च्युतमालनः शुचिभिर्महानलङ्ख्यैः । तरुमृगपतिलक्ष्मणक्षितीन्द्रैः समधिगतो जलधिः परं बभासे ॥६२॥ अपरिमितमहाद्भुतैरित्यादि-तरुमृगपतिलक्ष्मणक्षितीन्द्रः सुग्रीव लक्ष्मणरामैः समधिगतः प्राप्तो जलधिः परं सुष्ठु: बभासे शोभते स्म । कीदृशैः कीदृश इत्याह--अपरिमितमहाद्भुतैर्विचित्र : नानाद्भुतः । शुचिभिर्विमलैः च्युतमलिनो निर्मलोऽलङ्ङ्घ धैरनभिभवनीयैः महान् अनभिभवनीयः । एवं च कृत्वा तेनापि ते समधिगताः परं बभासिर इति । तुल्ययोगितेति न्यूनानामपि तेषां सुग्रीवा- दीनां विशिष्टेन जलनिधिना महाद्भुतत्वादिगुणसाम्यविवक्षया तुल्यस्य कार्यस्य भासनलक्षणस्यानुष्ठानेन तुल्ययोगात् । तथा चोक्तम्-'न्यूनस्यापि विशिष्टेन गुणसाम्यावेवक्षया || तुल्यकार्यक्रिया योगादित्युक्ता तुल्य योगिता || " इति ।। ६२ ।। निदर्शना । न भवति महिमा विना विपत्तेरवगमयन्निव पश्यतः पयोधिः । अविरतमभवत्क्षणे क्षणेऽसौ शिखरिपृथुप्रथित प्रशान्तवीचिः || ६३ || न भवतीत्यादि-महिमा महत्त्वं विना विपत्तेः विनाशं विना न सवति । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् | २ | ३ | ३२ ।। इति यस्य विनाशो नास्तीत्येवमवगमयन् पञ्चमी । नास्त्येव तन्महत्त्वं बांधयन्निव पयोधिस्तान् पश्यतो रामादीन् अविरतमविच्छेदेन शिखरि- चत् पृथवः प्रथिताः प्रशान्ताञ्च वीचयो यस्य स एवं क्षणे क्षणे अभवत् १ उपमारूपकयोस्सङ्करः । उपमारूपकमिति विशेषग्यपदेश्यस्तु नास्त्यलङ्कारः काशकारादिमते ।