( ३१४) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः- भूतवान् । निदर्शनेति प्रतिक्षणं वीचीनां पृथुत्व प्रशान्तत्वभवनक्रिययैक महिमभवनस्य तदर्थस्य विपत्तिफलस्य उपादानातू, न यथेववतिशब्दान प्रयोगात् । तथा चोक्तम्–‘क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनात् । इष्टा निर्द- र्शना नाम यथेववतिभिविना ||' इति ॥ ६३ ।। विरोधः । समुद्रोपकण्ठे रामस्य मदनावस्थामाह- मृदुाभराप बिभेद पुष्पबाणैर्जल शिशिरैरपि मारुतैर्ददाह । रघुतनयमनर्थपण्डितोऽसौ न च मदनः क्षतमाततान नाऽचिः ॥ ६४ ॥ मृदुभिरित्यादि---मदनोऽनर्थपण्डितः निष्प्रयोजनकुशलः पुष्पबाणैरपि मृदुभिः रघुतनयं बिभेद । न चासौ क्षतं खण्डनमाततान जनितवान् । जल- शिशिर मारुतैस्तमेव रघुतनयं ददाह न चासावर्चिवलामातततान ! विरोध इति पुष्पबाणानां यन्मादेवं मरुतां च जलसंसर्गाद्यच्छेत्यं तयोर्भेद्दाहलक्षणे क्रिये विरुद्धे तयोरभिधानात् । तयोश्च क्रिययोर्वा विरोधिनी क्रिया क्षतार्चिषो- रनातानलक्षणा तस्याः कामोद्रेकप्रतिपादनाभिधानात् । तथा चोक्तम्-'गुणस्य च क्रियाया वा विरुद्धान्यक्रियाभिधा | या विशेषाभिधानाय विरोधं तं विदु र्यथा || इति ।। ६४ ।। उपमेयोपमा । अथ मृदुमीलनमभौ दिनाऽन्ते जलधिसमीपगतावतीतलोकौं । अनुकृतिमितरेतरस्य मूर्त्योदिनकरराघवनन्दनावकाम् ॥ ६५ ॥ अथेत्यादि-अथ यथोक्तवस्त्वनन्तरं मृदुमलिनप्रभौ मृदुरप्रचण्डा मलिना प्रभा ययोः तौ दिनकरराघवनन्दनौ । रघोरपत्यं राघवः दशरथस्तन्नन्दनो रामः । दिनान्ते अन्योन्यस्य दिवाकरो रामस्य रामोऽपि दिवाकरस्येति मूर्त्यो- र्देहयोरनुकृतिमिवानुकारमिव यथोक्तधर्मतुल्यतया अकाष्ट कृतवन्तौ । अतीत लोकौ त्यक्तलोकौ । उपमेयोपमेति तयोः पर्यायेण उपमानोपमेयत्वात् । तथा चोक्तम्-- ‘उपमानोपमेयत्वं यत्र पर्यायतो भवेत् । उपमेयोपमां धीरा ब्रुवते तां यथोदिताम् ||' इति ।। ६५ ।। सहोक्तिः । अपहरदिव सर्वतो विनोदान दयितगतं दधदेकधा समाधिम् । घनरुचि ववृधे ततोऽन्धकारं सह रघुनन्दनमन्मथोदयेन ॥ ६६ ॥ १ विरोधो विरोधाभासः | २ अन्न 'पुष्पिताग्रा, वृत्तम् । Ph
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५२
दिखावट