पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३१२) भट्टिकाव्ये जयमङ्गलासमेते- समेत्य मायामिव जलनिधिमीयुः ज्ञातवत्यः । सर्वे गत्यर्था ज्ञानार्था इति । 'भ्रूञ भरणे' इति भौवादिकः । अपहुतिरिति मायामित्यन्तर्गतोपमा रूपतया निर्देशात् । विद्यमानार्थस्य चापहवात् । तथा चोक्तम् -'अपहुतिरिती- छात्र किंचिदन्तर्गतोपमा । भूतार्थापहवादेषा क्रियतेऽस्याभिधा यथा ॥" इति ।। ५८ ।। [ दशम:- - विशेषोक्तिः । शशिरहितमपिप्रभूतकान्ति विबुधहत श्रियमप्यनष्टशोभम् । मथितमपि सुरैर्दिवं जलौघैः समभिभवन्तमविक्षतप्रभावम् ॥ ५९॥ शशिरहितमित्यादि-शशिरहितमपि चन्द्ररहितमपि प्रभूतकान्तिम् । पद्मरागादिरत्नावभासितत्वात् । विबुध तश्रियमपि अनष्टशोभ सर्वदा शोभा- स्पदत्वात् । सुरैर्मृथितमपि दिवमाकाशं जलौघैः समभिभवन्तम् अत्युच्छ्रित- त्वात् । तदेवमविक्षतप्रभावम् अखण्डिताभिमानमीयुः ज्ञातवत्यः । विशेषोत्ति- रिति शश्यादेरेकदेशस्य विगमेऽपि प्रभूतकान्त्या गुणान्तरेण स्तुतिविशेषस्य प्रतिपादनात् । यथोक्तम् – 'एक देशस्य विगमे या गुणान्तरसंस्तुतिः । विशेष- प्रथनायासौ विशेषोक्तिर्मता यथा ॥ इति ॥ ५९ ॥ व्याजस्तुतिः । क्षितिकुलगिरिशेषदिग्गजेन्द्रान् सलिलगतामिव नावमुद्वहन्तम् । घृतविधुरघरं महावराहं गिरिगुरुपोत्रमपीहितैर्जयन्तम् । ६० ।। क्षितीत्यादि-- क्षितिं पृथिवीं, कुलगिरीन् कुलपर्वतान्, शेषं नागराजं, दिग्गजेन्द्रानैरावतादीन् । सलिलगतामिव नावमुद्रहन्तं जलनिधिं महावरा हूँ धृतविधुरघरं धृता उद्धृता विधुरा विहला धरा मही येनेति । गिरिगुरु- पोत्र गिरिवत् गुरु पोत्रं यस्य तमपीहितैश्चेष्टितैर्जयन्तं जलनिधिमीयुः । व्याजस्तुतिरिति क्षित्यादिधारणाद्धिकगुणस्य जलनिधेः स्तोत्रव्यपदेशेन वराहेण तुल्यत्वात् । तमपि महावर हं जयन्तमिति किचिद्विधातुमिच्छया निन्दनात् । तथा चोक्तम्-'दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यता | किंचिद्विधित्सया निन्दा व्याजस्तुतिरसौ यथा ॥” इति ।। ६० ।। उपमारूपकम् । गिरिपरिगतचञ्चलाऽऽपगान्तं जलनिवहं दधतं मनोऽभिरामम् । गलितमिव भुवो विलोक्य रामं धरणिधरस्तनशुलचीनपट्टम् ॥ ६१॥