पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (३११) दुलक्षणंष्टंसहोक्त्युपमाहेतुनिर्देशात्रिविधम् । यथोक्तम्---- ‘श्लेषादेवार्थवचसार्यस्य च क्रियते भिदा । तत्सहोक्त्युपमाहेतुनिर्देशा- त्रिविधं यथा ॥” इति । तत्रेदं सहोक्तिलिष्टमुक्तं गिरीनहींश्चोत सहोक्त्या निर्देशात् ॥ ५५ ॥ श्लिष्टमेव । प्रददृशुरुरुमुक्तशीकरौघान् विमलमणियुतिसम्भृतेन्द्र चापान् । जलमुच इव धीरमन्द्रघोषान् क्षितिपरितापहतो महातरङ्गान् ॥ ५६॥ प्रददृशुरित्यादि --- महातरङ्गान् जलमुच इव मेघानिव प्रददृशुः प्रदृष्ट- वत्यः । उरवो महान्तो मुक्ताः प्रकीर्णाः शीकरौघा येषु । विमलमणिद्युतय एव सन्ततानि इन्द्रचापानि येषु | धीरमन्द्रघोषान् मधुरगम्भीरध्वनीन् । क्षितिपरितापहृतः पृथिवीसंतापहारिणः । इदमपि यथानिर्दिष्टविशेषणात् । ष्ट जलमुच इवेत्युपमान निर्देशात् ॥ ५६ ॥ अथ पञ्चभिः कुलकम् । हेतुश्लिष्टम् । विद्रुममणिकृतभूषा मुक्ताफल निकररञ्जिताऽऽत्मानः । बभुरुदकनागभग्ना वेलातटशिखरिणो यत्र ॥ ५७ ॥ विद्रुमेत्यादि–वेलातटशिखरिणो यत्र जलनिधौ बभुः शोभन्ते । ते तमयुरिति वक्ष्यमाणेन संबन्धः । वेलातटा: शिखरिणश्चेति द्वन्द्वः । शेषाणि विशेषणान्युभयत्र तुल्यानि । इदमपि यथानिर्दिष्टमेव । किंतु हेतुलिष्ट हेतुद्वारेण विशेषणानां निर्देशात् । विद्रुममणिकृतभूषत्वात् जलहस्तिभन्नत्वाच बभुरिति' ॥ ५७ ॥ अपह्नुातः । भृतनिखिलरसातलः सरत्नः शिखरिसमोर्मितिरोहिताऽन्तरिक्षः । कुत इह परमार्थतो जलौघो जलनिधिमीयुरतः समेत्य मायाम् ॥ ५८ ॥ भृतनिखिलरसातल इत्यादि---एवं गुणविशिष्टो जलौघः कुत इह प्रदेशे परमार्थतः परमार्थेन विद्यते । किं तर्हि माया । यतः पूरिताशेषपातालत्वात् सरत्नत्वात् । शिखरिस मैरूर्मिभिः पिहितान्तरिक्षत्वाच्च । सराघवाः प्लवङ्गसेना: १ अत्र द्वयोर्हेत्वोर्वचनं लिष्टम् ।