पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०८) भट्टिकाव्ये जयमङ्गलासमेते- [ दशम: -- लब्ध ग्रहेत्यादि-दिवो नितम्बं मध्यभागं ग्रहा माणरशनेव यस्य । विपुल विस्तीर्णम् । न विद्यते उत्तमोऽस्मादित्यनुत्तमः अतिशयवान् । कान्त्या योगो येन । च्युतो घनो वसनभिव यस्मात् । शिखरैः करैरिव मदनादिव स्पृशन्तं महेन्द्रम् | रसवदिति दिवो गिरेश्च स्त्रीपुंसयोरिव शृङ्गाररसाभिधानात् । तथा चोक्तम्-- 'रसवदर्शितं स्पष्टं शृङ्गारादिरसं यथा | " इति ॥ ४८ ॥ ऊर्जस्वी | प्रचपलमगुरुं भराऽसहिष्णुं जनमसमानमनूजितं विवर्ज्य । कृतवसतिमिवाऽर्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमेघम् ||४९ || प्रचपलमित्यादि--जनं लोकं प्रचपलम् अस्थिरम् अगुरुं लघुम् अत एव भरा सहिष्णुम्। अनूजितम् अनहंकारं विवज्यैवासमानत्वात् अर्णवस्य समुद्रस्योपकण्ठे समीपे कृतवसतिं कृतावस्थानं समीयुः । तदेवासमानत्वं दर्शयन्नाह - स्थिरम् अचलम् अतुलोन्नतिम् असाधारण महत्त्वमूढतुङ्गमेधं तद्धतमहामेघम् आश्रयणीयत्वात् । ऊर्जस्वीति साहकारवस्त्वभिधानात् ।। ४९ ॥ पर्यायोक्तिः । स्फटिकमणिगृहैंः सरत्नदीपैः प्रतरुणकिन्नरगीतनिस्वनैश्च । अमरपुरमात सुराङ्गनानां दक्षतमदुःखमनल्पकल्पवृक्षम् ॥ ५० ॥ ( स्फटिकमणिगृहै रित्यादि-स्फटिकमणिगृहै: रत्नदीपयुक्तैः प्रतरुणानां किन्नराणां गीतनिस्वनैश्च हेतुभतैः अमरपुरमति स्वर्गबुद्धिं सुराङ्गनानां दघतं जनयन्तम् । अदुःखं न विद्यते दुःखमस्मिन्निति, सुखहेतुमित्यर्थः । बहुकल्पवृक्षं समीयुः । पर्यायोक्तिरिति अमरपुरमतिं दधतमित्यनेन पर्या- येण वचनगत्या तदेवामरपुरमिति प्रतिपादनात् । तथा चोक्तम्- 'पर्या- योक्तं यदन्येन प्रकारेणाभिधीयते।' इति । ५० ।। समाहितम् । अथ ददृशुरुदीर्ण धूमधूम्रां दिशमुदधिव्यवधि समेतसीताम् । सहरघुतनयाः प्लवङ्गसेना पवनसुताऽङ्गुलिदर्शितामुक्षाः ॥ ५१० अथेत्यादि-अथ प्राप्त्यनन्तरं प्लवङ्गसेनाः सहरघुतनया दिशं ददृशुः ॥ उदधिव्यवधिं सजलधिव्यवधानां दक्षिणामित्यर्थः । 'उपसर्गे घोः किः । ●