पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सार्मः ] प्रसन्नकाण्डम् | वार्ता । विषधरनिलये निविष्टसूलं शिखरशतैः परिमृष्टदेवलोकम् । बनविपुल नितम्ब पूरिताशं फल कुसुमाऽऽचित्तवृक्षरम्यकुञ्जम् ॥४६॥ निविष्टमूलं महेन्द्रम् । विषधरनिलय इत्यादि-विषधरनिलये पाताले शिखरशतैः करणभूतैः परिसृष्टः संमृष्टो देवलोको येन। घनैर्निरन्तरविं- पुलैविस्तीर्णैर्नितम्बैमेखलाभागैः पूरिता व्याप्ता आशा दिशो येन | फळकुसु- माचितैर्वृक्षैः रम्यं कुञ्जं गहनं यम्मिन् । वार्तेति तत्त्वार्थकथनात् । सा द्विविधा विशिष्टा निर्वैिशिष्टा च । तत्र या पूर्वा सा स्वभावोक्तिहदिता । यथेयमेव । तथा चोक्तम्- 'स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते । अर्थस्य सावस्थ्ये च स्वभावोऽभिहितो यथा ॥ इति । निर्विशिष्टा वार्ता नामालङ्कारः । यथोक्तम्-'गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिः । इत्येवमादिकं काव्यं वार्तामेतां प्रचक्षते ||' इति ।। ४६ ।। प्रेयः । (३०७) मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैदैथिताऽऽस्यहास्यलक्ष्म्याः | स्फुटमनुहरमाणमादधानं पुरुषपतेः सहसा परं प्रमोदम् ।। ४७ ।। मधुकरविरुतै रित्यादि-- प्रियाध्वनीनां सीतासंबन्धिनां जल्पितानां मधु- करविरुतैः स्फुटं स्पष्टमनुहरमाणमनुकुर्वन्तं सादृश्यमित्यर्थात् । दयितायाः 'सीतायाः यदास्यं हासश्चैतयोर्लक्ष्म्याः सरसिरुहै: सादृश्यमनुहरमाणं सन्तं सहेन्द्रम् ।तत्र पद्मैरास्यलक्ष्म्याः कुमुदैर्हासलक्ष्याः। अथवा । 'तुल्यार्थैरतु लोपमाभ्यां तृतीयान्यतरस्याम् २।३।७२|' इति षष्ठी | अनुहरमाणशब्दस्य तुल्यार्थत्वात् । सदृशीभवन्तमित्यर्थः । पुरुषपते: रामस्य सहसा तत्क्षगम् आगतमात्रस्येत्यर्थः । पर मुत्कृष्टं प्रमोदमादधानं जनयन्तं समीयुः । प्रेय इति त्रियतनवस्त्व भिवानात् ।। ४७ ।। रसवत् । अहमणिरशनं दिवो नितम्बं विपुलमनुत्तमलब्ध कान्तियोगम् । च्युतधनवसनं मनोऽभिरामं शिखरकरैर्मंदनादिव स्पृशन्तम् ॥४८॥ १ अत्र 'पुष्पिताग्रा' छन्दः । वार्त्ता तु व्याख्याकारैर्लक्षितैत्र बोध्या । अन्ये तु प्राय आलङ्कारिका गुणी भूतव्यङ्ग्यविशेष मेवाहुः | २ अत्रापि 'पुष्पिताप्रा' छन्दः । मेषःप्रभृतयस्तु भावालङ्कारा इति प्रकाश स्थितम् ।