पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०६) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः - परिच्छेद्य इति लोकातिक्रान्तवचनमेतद्वचनम् । अवश्यं च कश्चिद्विशेषोऽस्ति । यथोक्तम्--'निमित्ततो यत्र वचो लोकातिक्रान्तगोचरम् | मन्यन्तेऽतिशयोक्ति तामलंकारतया यथा ॥” इति ॥ ४३ ॥ अथ सप्तभिः कुलकम् । यथासंख्यम् । कपिपृष्ठगतौ ततो नरेन्द्रो कपयश्च ज्वलिताऽग्निपिङ्गलाक्षाः । मुमुचुः मययुद्रुतं समीयुर्वसुधां व्योम महीधरं महेन्द्रम् ॥ ४४ ॥ कपिपृष्ठगतावित्यादि-- ततोऽनन्तरं नरेन्द्रौ रामलक्ष्मणौ कपयश्च सर्व एते मुमुचुः वसुधां त्यक्तवन्तः । प्रययुर्व्योम आकाशम् । महेन्द्र मही- घरं समीयुः गतवन्तः । लिट: कित्त्वे गुणाभावाद्धातोरियङ् । नरेन्द्रौ किंभूतौ । कपिपृष्ठगतौ हनूमन्तमारूढौ । यथासंख्यमिति मुमुचुरित्या- दीनां क्रियाणां वसुधादीनां च कर्मणामनुक्रमशो निर्देशात् । यथोक्तम्- 'भूयसामुपदिष्टानां क्रियाणामथ कर्मणाम् । क्रमशो योऽनुनिर्देशो यथा - संख्यं तदुच्यते ॥' इति ॥ ४४ ॥ उत्प्रेक्षा । स्थितमिव परिरक्षितुं समन्तादुदधिजलौघपरिप्लवाद्धरित्रीम् । गगनतलवसुन्धरान्तराले जलनिधिवेगसहं प्रसार्य देहम् ॥ ४५ ॥ 1 - स्थितमित्यादि - उद्धिजलौघात्समन्ततो यः परिप्लवो विनाशः तस्माद्ध- रित्री परिरक्षितुमिव गगनतलवसुन्धरयोरन्तराले देहं शरीरं जलनिधि- वेगं सहत इति मूलविभुजादित्वात्कः । प्रसार्य स्थितं महेन्द्रं समीयुः । उत्प्रेक्षेति । यथोक्तम्- 'अविवक्षितसामान्यात्किञ्चिचोपमया सह । अतद्गुण- क्रिया रोपादुत्प्रेक्षातिशयॉन्त्रिता ॥' इति । अत्र महीधरसामान्यस्यापि विव- क्षितत्वादविवक्षितं सामान्यत्वं रक्षितुमिवेति किञ्चिदुपमया सह महेन्द्र - गिरेरतद्गुणतया रक्षणक्रियायोगः । गगनतलं वसुन्धरां व्याप्य स्थितमित्य- तिशयान्विता ॥ ४५ ॥ १ अत्र 'औपच्छन्दसिकं' छन्दः | २ अन्नापि तदेव वृत्तम् । ३ अन्न 'पुष्पिताग्रा' वृत्तम्।