पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] प्रसन्नकाण्डम् | (३०५) नपकृतोऽपि क्रूरः सन् यः शत्रुः तेन गृहीतां साध्वीं पतिव्रतां दयितासिष्टां चाणाही त्रातुं रक्षितुमलं पर्याप्तं त्वं घटस्व यतस्व | हे राजन्नित्यवदुद्धनूमान् | विभावनेति परीक्षा सेवा विरोधनं चेति तिस्रः क्रिया: ' तासां यः प्रतिषेधः जना तेन अपरीक्षापूर्वकं यत् करणं तथा वृद्धसेवापूर्वकं यत्पण्डितत्वं यच्चाविरोधपूर्वकं निष्ठुरत्वं तस्य क्रियाफलस्य विभावनात् प्रकाशनात् । यथोक्तम्–‘क्रियायाः प्रतिषेधेन तत्फलस्य विभावनात् । ज्ञेया विभावनैवासौ सान्वथ कथ्यते यथा ॥' इति ॥ ४१ ॥ समासोक्तिः । स च विह्वलसत्त्वसंकुलः परिशुष्यन्नभवन्महाहृदः । परितः परितापमूच्छितः पतितं चाऽम्बु निरभ्रमीप्सितम् ॥४२॥ सचेत्यादि - स च रामो महाहदः महाहदसम: सीताविरहात् विह्वले- नाकुलेन सत्त्वेन चेतसा संकुलो व्याप्तः । परिशुष्यन् शोषमुपगच्छन् परितः समन्तात् परितापमूच्छितः शोकसंतापेन मूर्च्छान्वितोऽभवत् भूतः । अनन्तरं चाम्बु जलं सीतावार्ताश्रवणमीप्सितम् अभिप्रेतं निरभ्रमाकस्मिकं "पतितमित्येकोऽर्थः । महाह्रदः परिशुष्यन् विह्वलैः सत्त्वैर्मत्स्यादिभिः संकुलो व्याप्तः । परितापमूच्छितः अर्कतापरन्वितोऽभवत् । अम्बु च निरभ्रं विना मेघेन पतितमिति द्वितीयः । समासोक्तिः । यथोक्तम्- 'यत्रोक्तेर्गम्यतेऽन्योऽर्थस्तत्समानविशेषणः । सा समासोक्तिरुदिता संक्षि- सार्थतया यथा ||' इति । एवं च कृत्वा अयं श्लेषाद्भिद्यते । श्लेष हि द्वयोरपि मणत्वात् ॥ ४२ ॥ अतिशयोक्तिः । अथ लक्ष्मणतुल्यरूपवेशं गमनाऽऽदेश विनिर्गताऽग्रहस्तम् । कपयोऽनुययुः समेत्य राम नतसुग्रीवगृहीत साऽऽदराज्ञम् ॥ ४३ ॥ अथत्यादि-अथ वार्ताश्रवणानन्तरं कपयः समेत्य मिलित्वा राममनुययुः अनुगतवन्तः । लक्ष्मणेन तुल्यं रूपं वेशश्च यस्य रामस्य गमनाय प्रयाणाय आदेशः तदर्थ विनिर्गतौ अग्रहस्तौ यस्य । नतेन प्रणतेन सुप्रीवेण गृहीता प्रतिष्ठिता सादराज्ञा यस्य तं रामम् । अतिशयोक्तिरिति अतिशयाभिधानात् । अत्र सुष्ठुपि नामासौ लक्ष्मणेन तुल्यरूपवेश: स्यात्, न तु प्रत्यक्षत्रमाण- १ अत्र 'औपच्छन्दसिकं' वृतम् | २ अत्र 'सुन्दरी' छन्दः । २०