पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मट्टिकाव्ये जयमङ्गलासमेते- आक्षेप एव । तस्याधिवासे तनुरुत्सुकासौ दृष्टा मया रामपतिः प्रमन्युः । कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन ॥ ३९ ॥ तस्येत्यादि- -तस्य रावणस्याधिवासे लङ्कायाम् असौ रामपतिः सीता मया दृष्टा | रामः पतिर्यस्या इति । 'विभाषा सपूर्वस्य |४|१||३४|| इति नका-- राभावपक्षे रूपम् । तनुः कृशाङ्गी | 'वोतो गुणवचनात् ||४|१||४|४|| इति ङीषो विकल्पः । उत्सुका सोत्कण्ठा, प्रमन्युः प्रकृष्टशोका | 'ऊङुतः ।४।१।६६।१ इत्यूङ् न भवति । तत्रायोपधादिति मनुष्यजातेरिति च वर्तते । अयं कार्यस्या- स्मददी त्तस्य सारः शरीरं सीतादर्शनम् उदीरितः कथितः । वो युष्मभ्यम् | शेषेणोद्धतेन अशोक वनिकाभङ्गादिना किं प्रोक्तेन । न किंचित् प्रयोजनम् स एवेत्ययमध्याक्षेप एवं किंतु वक्ष्यमाणविषयः । अत्र पूर्वार्धेनोक्तो य इष्टोऽर्थः तस्य विशेषाभि धित्सया प्रोक्तनेत्यादिना शेषार्थप्रतिषेधः ॥ ३९ ॥ व्यतिरेकः । ( ३०४ ) [ दशमः समतां शशिलेखयोपयायादव दाता प्रतनुः क्षयेण सीता । यदि नाम कलङ्क इन्दुलेखामतिवृत्तो लघयेन्न चापि भावी ॥४०॥ समितामित्यादि - - सता अवदाता शुद्धा प्रतनुः प्रकर्षेण तन्वी क्षयेण दौर्बल्येन एतात्रता तुल्यधर्मत्वाच्छशिलेखया समतां तुल्यतामुपयायात् उपगच्छेत् । यदि कलङ्को नामापरोऽतिवृत्तोऽतिक्रान्तः इन्दुलेखां न लघयेत् न] न्यूनयेत् । तथा भावी आगामी नालघयिष्यत् यदि । न चैवं तस्माञ्चन्द्र- लेखया न समेति भावः । व्यतिरक इति अयं व्यतिरेको नाम अन्वयः पूर्वाधनोपानोपमेययोरर्थो दर्शितः, तस्य पश्चार्धेन भेददर्शनात् । यथोक्तम्- 'उपमानवतोऽर्थस्य यद्विशेषनिदर्शनम् । व्यतिरेकं तमिच्छन्ति विशेषो--- त्पादनाद्यथा ||' इति ।। ४० ।। विभावना | अपरीक्षितकारिणा गृहीतां त्वमनासेवितवृद्धपण्डितेन । अविरोधितनिष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् ॥ ४१० अपर हितकारिणेत्यादि- अपरीक्षितकारिणा अविचारित करणशीलेन, अनासेवितद्वपण्डितेन अपर्युपासितज्ञानवृद्धसत्पथेन, अविरोधितनिष्ठुरणा- १ अत्र 'औपच्छन्दसिक वृत्तम् । तल्लक्षणं तूक्तं प्राकू । -