पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । विभवमदेन निहु॒तयाऽतिमात्र सम्पन्न कं व्यथयति सत्पथाधिगताथवेह सम्पन्नकम् || ३७ ॥ (३०३) 20 अहतेत्यादि — यो द्विषन् युधि संग्रामे समतमाय: समेता प्राप्ता माया येनेति तृतीयार्थे बहुव्रीहिः । मायावीत्यर्थः । धनेश्वरस्य धनदस्य धन- महृत हृतवान् । 'हस्वादङ्गात् |८|२|२७|' इति सिचो लोपः । तं विधु- धैर्देवैः सह कृतोत्तमायोधनं कृतमहासंग्रामम् । निहुता अपलपिता हीर्लज्जा येन विभवमदेन तेन निहुतहिया अतिमात्रं सुष्ठु सम्पन्नकं युक्तं येन परस्त्रियमपहृत्यानीतवानसौ तं विलोक्य अहमितः प्राप्तः । विभवमदो लज्जां त्याजयतीत्यमुमेवार्थम् अनुस्मृत्याथीन्तरमाह-अथवेति । अथवाशब्दो अनिपातसमुदायः यस्मादर्थे वर्तते । यस्मादिह लोके संपत् विभूतिरधिगता प्राप्ता सत्पथात् सन्मार्गात् कं न व्यथयति चालंयति । व्याथरत्र चलने ‘वर्तते । अर्थान्तरन्यास इति उक्तादर्थादन्यस्योपन्यासात् । यथोक्तम्- “उपन्यसनमर्थस्य प्रक्रान्तादपरस्य यत् । ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्था - जुगतो यथा ||' इति ॥ ३७ ॥ आक्षेपः । ऋद्धिमान् राक्षसो मूढश्चित्रं नाऽसौ यदुद्धतः । को वा हेतुरनार्याणां धर्म्यं वर्त्मनि वर्तितुम् ॥ ३८ ॥ -- ऋद्धिमानित्यादि -- यदसावुद्धतो दुर्वृत्तः न तच्चित्रमाश्चर्यम् । यस्मा- दसौ ऋद्धिमान् राक्षसश्च । उभयथा विमूढ़ इत्येतदयुक्तमिति प्रतिषेध- यन्नाह ----को वेति । किमनेनोक्तेन, यस्मादनार्याणां तद्विधानां धर्म्यं चर्मादनपेते वर्त्मनि मार्गे वर्तितुं को वा हेतु: किं नाम कारणम्, नैवेत्यर्थः । आक्षेप इति प्रतिषेधो नाम । यथोक्तम्- - ‘प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति द्विविधो यथा ||" इति । अत्र पूर्वार्धेनोक्तो य इष्टोऽर्थः तस्य को वेत्यादिना विशेष- प्रतिपादनेच्छया प्रतिषेध इति । स च उक्तवक्ष्यमाणविषयभेदाद्विविधः । अय- मुक्तविषयः ॥ ३८ ॥ १ अत्र 'नन्दनं' वृत्तम् 'शिवतुरतैस्तु नन्दनमिदं नजौ भजौ रद्वयम् ।' इति तल्लक्षणात् ।