पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः - समपश्यदपेतमैथिलिं दधत गौरवमात्रमात्मवत् ॥ ३४ ॥ अवसन्नरुचि मित्यादि-तं शिरोमणिं आत्मत्रदात्मानमित्र समपश्यद्रांमः ॥ “तेन तुल्यं क्रिया चेद्वतिः । ५ । १ ।११५|' इति वतिः । अवसन्नरुचिं मन्द- प्रभं वेणीबन्धनमलिनत्वात् । इतरत्र सशोकत्वात् । वनागतम् अशोकवनिका - ख्याद्वनादागतम् इतरं पितुरादेशाद्वनमागतम् | सुप्सुपेति समासः । अनामृष्टम् अनपनीतम् यद्रजः तेन विधूसरम् । उभयमपि अपेत मैथिलिम् अपेता मैथिली येन यस्माद्वा । दधतं गौरवमात्रं गुरुत्वमेव न दृप्त्यिादिकम्, इतरं माहात्म्यं द्धतम् । चद्धितोपमेति तद्धितप्रत्यया द्रष्टव्योः ॥ ३४ ॥ लुप्तोपमा । सामर्थ्यसम्पादितवाञ्छिताऽर्थश्चिन्तामणिः स्यान्न कथं हनूमान् । सलक्ष्मणो भूमिपतिस्तदानीं शाखामृगानीकपतिश्च मेने ॥ ३५ ॥ सामर्थ्येत्यादि - - सामर्थ्येन शक्त्या संपादितो निष्पादितो वाञ्छितोऽभिल-- षितोऽर्थो येन स हनूमान् कथं चिन्तामणिश्चिन्तामणिरिव न स्यात् । इति तदानीं मेने ज्ञातवान् । सलक्ष्मणः सह लक्ष्मणेन भूमिपती रामः शाखामृगानीकपतिश्च सुग्रीवः । लुप्तोपमेति चिन्तामणिरित्यत्रेव शब्दार्थस्य सम्यमानत्वात् ॥ ३५ ॥ समोपमा । युष्मानचेतन् क्षयवायुकल्पान् सीतास्फुलिङ्गं परिगृह्य जाल्मः । लङ्कावनं सिंहसमोऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान् ॥ ३६ ॥ युष्मानित्यादि -- युष्मान् रामादीन् क्षयवायुकल्पान् प्रलयकालमहा- चायुसदृशान् अचेतन् अजानन् । 'चिती संज्ञाने' इति भौवादिकः । द्विषन् दशाननः जाल्मः मूर्खः सीतास्फुलिङ्गं सीतामग्निकणमिव परिगृह्यादाय लङ्कां चनमिवाधिते । रिष्यामीति सिंहसमें इत्यवदद्धनूमान् । समोपमेति समशब्देनोपमाया अभिधानात् । एवं निभसदृशादयोऽपि द्रष्टव्याः || ३६ ॥ अर्थान्तरन्यासः । इदानीमलंकारान्तराण्याह-- अहत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्प विबुधैः कृतोत्तमाऽऽयोधनम् | १ अत्र तुल्यार्थस्य वतेस्तद्धितत्वात्तथोक्ता | २ वस्तुतस्त्वन्नोत्प्रेक्षा । 'सम्भावना स्यादुत्प्रेक्षा' इति तल्लक्षणात् । ३ अत्र लुप्तोपमा । ४ अत्र समपदेन समासेऽपि सैव ॥