पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसन्नकाण्डम् | ( ३०१ ) सर्गः ] कालक्रियादिभिः । उपमेयस्य यत्साम्यं गुणमात्रेण सोपमा ॥” इति ॥ अत्र विरुद्धदेशकालक्रिया: पुरुषोत्तम उपमानम्, तेन रामस्योपमेयस्व तपोवनस्थत्वेन विधृतजटाजिनवल्कलत्वेन नरानुकारिलक्ष्मणेनानुगतत्वेन च गुणमात्रेण साम्यंमुपमानम् ॥ ३१ ॥ यथोषमा | यथेवशब्द उपमार्थसूचकस्तथान्योऽपीति दर्शयन्नाह- कम्पुटनिहितं दधत् स रत्नं परिविरलाइङ्गलिनिर्गताऽल्पदीप्ति | तनुकपिलघनस्थितं यथेन्दु नृपमनमत्परिसुन जानु मूर्धा ॥ ३२ ॥ करपुटनिहितमित्यादि-करपुढे करयुग्मे निहितं न्यस्तं रत्नं सीता- चूडामणि परिविरलाङ्गुलिभ्यो निर्गता अल्पा दीप्तयो यस्य तद्रलं दधद्धा- रयन् स हनूमान् नृपं राममनमत् प्रणतवान् । परिभुने अवनते जानुनी मूर्धा च यस्य हनूमतः । यथेन्दुम् इन्दुमित्र तनुः अच्छः कपिलश्च य घनः मेघः तत्र स्थितमिन्दुमिव रत्नम् । यथोपमेति यथाशब्देनोपमार्थस्य गम्यमानत्वात् ॥ ३२ ॥ सहोपमा । रुचिरोन्नतरत्नगौरवः परिपूर्णाऽमृतरश्मिमण्डलः । समदृश्यत जीविताऽऽशया सह रामेण वधूशिरोमणिः || ३३ || रुचिरेत्यादि — वधूशिरोमणिः सीताचूडामणिः । उन्नतं महद्रनगौरव महार्घ्यादिलक्षणं यस्य रुचिरो दीप्तिमांचा उन्नतरत्नगौरवश्चेति सः । परिपूर्णस्यामृतरश्मेश्चन्द्रमसो मण्डलमित्र मण्डलं यस्य सः | रामेण सम- दृश्यत संदृष्टः । कर्मणि लङ् | जीविताराया सह सार्धं नदर्शनतो जीवि जोऽस्मीति तदाशया सह । सा रुचिरा तुष्टिदा रुचि राति ददातीति कृत्वा । उन्नतरत्नगौरवादुन्नतं रत्नेष्विव गौरैवं बहुमानो यस्यामिति । परिपूर्णम- मृतममरणं रश्मिमण्डलं यस्यामिति । सहोपमेति सहशब्देन जीविता- शया उपमाद्योतनात् ॥ ३३ ॥ तद्धितोपमा । असत्ररुचि वनाऽऽगतं तमनाऽऽसृष्टरजोविधूसरम | १ यथापदेन बोध्योपमा ।