पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः 1 प्रसन्नकाण्डम् | (३०९) ३ । ३ । ९२ ।' इति कि: । उदीर्णेन महता धूमेन धूत्रामस्पष्टाम् | समेतसीतां संगता सीतानयेति तृतीयार्थे बहुव्रीहिः । पवनसुतस्याङ्गुल्या दर्शिताम् । उदक्षाः ऊर्ध्वकृताक्षाः । 'बहुव्रीहौ सक्ध्यक्ष्णोः स्वाङ्गात्षच् । ५ । ४ । ११३ ।' इति षच्। पिल्लक्षणो ङीष् न भवति, तस्यानित्यत्वात् । तेन दंष्टेत्युपपन्नं भवति । समाहितमिति अनन्यमनस्कतया दिशोऽवलो- का ॥ ५१ ॥ अथ चतुर्भिः कलापकम् । उदारम् । जलनिधिमग मन्महेन्द्र कुञ्जत् प्रचयतिरोहित तिग्म रश्मिभासः | सलिल समुदयैर्महातरङ्गैर्भुवनभरक्षम मप्यभिन्नवेलम् ॥ ५२ ।। जलनिधिमित्यादि — महेन्द्रकुञ्जात् जलनिधिमगमन् गतवत्यः लवङ्ग- सेनाः । ऌदित्त्वाच्च्लरेङ् | प्रचयेन उच्चतया तिरोहितास्तिग्मरश्मिभासो येन निकुञ्जेन तस्मान्निकु जात् | सलिलसमुदयैर्महातरङ्गैर्महोर्मिभिः भुवनस्य भरणे क्षममपि शक्तमपि । 'भू भरणे' इति फ्रैयादिकः । तस्य'ऋदोरप्|३|३|५७१९ इत्यपि रूपम्। अभिन्नवेलम् अनतिक्रान्तमर्यादें जलनिधिम् । उदारमिति उदात्त- भित्यर्थः । महानुभावताप्रतिपादनात् । यतो महातरङ्गैजेलसमूहैर्भुवनभरक्षम- मपि अभिन्नवेलमिति । द्विविधमुदारं महानुभावतया विविध वयोगा- च्चेति । इयं महानुभावता दर्शिता ।। ५२ ॥ द्वितीयमाह -- उदारमेव । - पृथुगुरु मणिशुक्ति गर्भभासा ग्लपितरसातलसम्भृताऽन्धकारम् | उपहतरविरश्मिवृत्तिमुच्चैः प्रलघुपरिप्लवमानवज्रजालैः ॥ ५३ ॥ पृथ्वित्यादि - - पृथवो महान्तः गुरवस्तु न परिच्छेद्या मणयो मौक्तिका यासां शुक्तीनां तथाविधानां गर्भस्य भासा दीप्त्या ग्लपितं क्षयितं रसातले संभृतमुपचितमन्धकारं येन तम् । उच्चैरुपरि लघुनामल्पानां परिष्ठवमानानां वाणां यानि जांलानि समूहाः तैरुपहता रविरश्मिवृत्तयो १ समाहितमेव समाधिः । 'समाधिः सुकरं कार्य कारणान्तरयोगतः ।' इति । २ उदारमित्यत्रोदात्तमिति पठनीयम् । 'उदात्तं वस्तुनः सम्पन्महतां चोपलक्ष- ‘णम् ।’ इति तल्लक्षणं च । एवं परत्रापि सर्वत्रोदार रदमुदात्तालङ्कारपरमेव ।