पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- महायमकम् । अभियाता वरं तुङ्गं भूभृतं रुचिरं पुरः । कर्कशं प्रथितं धाम ससत्वं पुष्करेक्षणम् ॥ २० ॥ अभियातेत्यादि-भूभृतं रामं वरं श्रेष्ठं तुझं महाकुलीनत्वादिति सर्वे- पापार स्थित गुण रुचिरं सर्वाङ्गसुन्दरं पुरोऽग्रतो वक्षःस्थले कर्कश लोमशं प्रथितं लोके प्रख्यातं धाम गृहं वर्णाश्रमधर्माणां संसत्त्वं परा- क्रमयोगात् । पुष्करेक्षणं पद्मलोचनम् अभियाता आभिमुख्येन यास्यति हनुमान् | लुटि रूपम् ॥ २० ॥ (२९६ ) अभियाऽताऽऽवरं तुङ्गं भूभृतं रुचिरं पुरः । कर्कशं प्रस्थितं धाम ससत्त्वं पुष्करे क्षणम् ॥ २१ ॥ [ दशमः- अभियातेत्यादि--भभृतं पर्वतं यत्राङ्गदादयः स्थिताः तममिया अभिगच्छता हनूमता । कुतः पुरो लङ्कायाः सकाशात् । पुष्करे आकाशे धाम तेज: क्षण मुहूर्त प्रथितं विस्तारितम् । अभियातीति 'अन्येभ्योऽपि दृश्यते । ३॥ २॥ १७८ ।' इति किश् । तृतीयैकवचने । 'आतो धातोः |६|४|१४०।' इत्या का रलोपे अभियेति रूपम् । कीदृशम् अतावरं सातत्येनाततीति पचाद्यच । अतो वायुः आदित्यो वा । आवृणोतीत्यपि आवरः । अतस्यावरं यत- स्तुङ्गम् उच्चैस्तरम् । रुचिरं तुष्टिदं रुचि रातीति । कर्कशं कठिनस्वभा- वम् । ससत्त्वं प्राणियुक्तम् । महायमकमिति लोकस्यैकस्य द्वितीयेन लोकेन यमितत्वात् ।। २१ ।। आद्यन्तयमकम् । चित्रं चित्रमिवाऽऽयातो विचित्रं तस्य भूभृतम् । हरयो वेगमासाद्य संत्रस्ता मुमुहुर्मुहुः ॥ २२ ॥ चित्रमित्यादि - भूभृतम् भूधरं पर्वतं चित्रं गैरिका दिभिर्नानावर्णम् अत एव चित्रमिवालेख्यमित्र । आयातः आगच्छतस्तस्य हनुमतः वेंगे जवं चित्रम् अद्भुतमासाद्य प्राप्य हरयः कपयः संत्रस्ता: सभया: मुमुहुः मुहुः क्षणम् । आद्यन्तयमकमिति श्लोकस्यादावन्ते च यमितत्वात् ॥ २२ ॥ १ भुवं बिभर्ति रक्षतीति तं तथोक्तम् । २ भुवं बिभर्ति धारयतीति तम् L पृथिव्या ह्यवष्टम्भभूताः पर्वताः ।