पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । ( २९५) र्युक्तम् । किं कृत्वा उदपतदित्याह-वपुः शरीरं प्रतिविधाय कृत्वा । रुचि - तान्तुष्टान्मोदयतीति रुचितमुत् । व्यर्थोऽत्रान्तर्भूतः । द्विषां शत्रूणां भयदम् । नतिमत् तदानीं देवेषु कृतशिरःप्रणामत्वात् । अथवा रुचि- रमेवाभीष्टमेव वपुः । . उन्नतिमत् विभूतिमत् । पृथुसत्त्ववत् विस्तीर्णसत्त्ववत् । सत्त्वगुणयुक्तं वा । गर्भयमकमिति द्वयोः पादयोर्मध्ये यादद्वयस्य यमितत्वात् ॥ १८ ॥ सर्वयमकम् । बभौ मरुत्वान् विकृतः समुद्रो बभौ मरुत्वान् विकृतः समुद्रः । बभौ मरुत्वान् विकृतःसमुद्रो बभौ मरुत्वान् विकृतः समुद्रः ।। १५ ।। पाद: । बभावित्यादि - मरुत्वान् हनुमान, पितृत्वेन मरुद्विद्यते अस्येति 'झयः । ८।२।१० ।' इति वत्वम् । विविधं कृतं वनभङ्गादि कर्म येन तथोक्तः विविधं वा कृन्ततीति विकृतः । इगुपवलक्षणः कः । वृक्षादीनां छेदक इत्यर्थः । समुद्रो मुद्रयाभिज्ञानेन चूडामणिना सह वर्तत इति । समुत्प- तितो नभसि तेज:पुञ्ज इव बभौ दीप्यते स्म । इत्ययं प्रथमः तास्मन् तथाभूते मरुत्वानिन्द्रः । अनुजीवितया मरुतो देवा अस्य सन्तीतिति कृत्वा । विकृतः रावणपरिभवात् विहतदेवाधिनत्यः । विकृतः। सच समुद्रः मुद्रया अप्सरसा सह वर्तमानः । समुपलव्धमारुतिवृत्तान्तः । बभौ हृष्टवान् । कपिना तावाददं कृतं रामः पुनः समूलं छेत्स्यतीति । अनेकार्थत्वाद्धातूनां भातिरत्र तुष्टौ वर्तते । इत्ययं द्वितीयः । समुद्रो जलनिधिः मरुत्वान् हनूमदुत्पतनजनितवायुना युक्तः अत एव विकृतो- ऽतिक्रान्तमर्यादः बभौ बभूव । अत्र सत्तायां प्रयुक्तः । इत्ययं तृतीयः । स लोकपालो मरुत्वान् महाभूतात्मकेन युक्तः मरुत्वान् । पूर्ववन्मतुप् । मरुत्वानिति व्याख्याने ‘झलां जशोऽन्ते |८|२|३९|' इति जश् स्यात् । मुद्दो हर्षस्य दाता पुत्रो मे सुखेन यास्यतीति मुदं राति ददातीति 'आतोऽनुपसर्गे कः | ३|२||३|' विकृतो मन्दगतिः । बभौ वाति स्म । अत्र गतौ प्रयुक्तः । इत्ययं न्वतुर्थः । अन्यस्त्वाह यमकेषु क्रियापदस्याभिधेयत्वं न दुष्यतीति तेन दीप्त्यर्थं व योज्य: ! सर्वयमकमिति चतुर्णामपि पादानां सहशत्वात् ॥ १९ ॥ १ अत्र ' द्रुतविलम्बितं' वृत्तम् ।