पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२९४) भट्टिकाव्ये जयमङ्गलासमेते- [ दशम:- सहमाना सह मानेन वर्त्तते इति 'वोपसर्जनस्य |६|३|८२|| इति सभाव- विकल्प: । ददृशे इति सम्बन्धः । विपथयमकमिति पाद्वयातिक्रमापिथेन विमार्गेण यमितत्वात् ॥ १६ ॥ मध्यान्तयमकम् । मितमवद्दुदारं तां हनूमान् मुदारं रघुवृषभ सकाशं यामि देवि ! प्रकाशम् । तव विदित विषाढ़ो दृष्टकृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम् ॥ १७ ॥ मितमित्यादि---मितम् अल्पाक्षरम् अर्थावगाढं तां सीतां हनूमान् मुद हर्षेण युक्तः अवदत् कथितवान् | किमित्याह --अरं शीघ्रं हे देवि, रघुवृषभसकाशं रामसमीपं माल्यवन्तं पर्वतं प्रकाशं प्रकटं यामि । तव विदितविषादो ज्ञाताव- सादः। दृष्टकृत्स्नामिवादः वीक्षिताशेषनिशाचरः। आमिषं मांसमदन्तीति 'कर्म- ण्यण् । ३ । २ । १ ।’ ‘वाऽसरूपोऽस्त्रियाम् । ३ । १ । ९४ ।' इति वचनात् ॥ ‘अदोऽनन्ने ।३ । २ । ६८।' इति विप्रत्ययेनाणो विकल्पेन बाधनात् । श्रियं शोभाम् अनिशमवन्तं रक्षन्तं पर्वतम् । मध्यान्तयमकमिति पादस्य मध्ये अन्ते च यमितत्त्वांत् ।। १७ ।। गर्भयमकम् । उदपतद्वियदप्रगमः परैरुचितमुन्नतिमत्पृथुसत्त्ववत् | रुचित मुन्नतिमत्पृथुसत्त्ववत्प्रतिविधाय वपुर्भयदं द्विषाम् ॥ १८ ॥ उदपतदित्यादि-वियदाकाशमुदपतत् उत्पपात । परैःशत्रुभिरप्रगमः अनभिभ- बनीयः । गमेः 'ग्रहवृहनिश्चिगमश्च |३|३|५८ ।' इति कर्मण्यप् । 'कर्तृकर्मणो: कृति |२|३|६५|' इत्यत्र 'विभाषोपसर्गे' । २ । ४ १५९| इति मण्डूकप्लुत्या अनुवर्तनीयम् । सोपसर्गस्य प्रयोग विभाषा पष्ठी | रुचितं शोभितं वियन्निर्मल- त्वात् । अथवा अप्रगमोऽन्येषामित्यर्थात् । परैरुत्कृष्टैरन्तरिक्षचारिभिः रुचितं दीपितम् | उन्नतिमत् उच्छ्राययुक्तम् । पृथुसत्त्ववद्भिः प्राणिभि- 6 १ अत्र तनुमध्याम्' वृत्तम् । २ अत्र 'माकिनी' इन्दः । 'ननमययुतेयं मालिनी भोगिलोकैः' इति तल्लक्षणम् |