पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । (२९३ ) अस्मिन् वने । तत्रासन: पीतसाल:, बाण: ग्रन्थिका, केशरो नागकेशररो देव- चल्लभो वा । विविक्ताः शुचयो मालाः स्रजो यस्मिन् तद्विविक्तमालम् । द्रष्टुम् अलं पर्याप्तः सीतां ह्रक्ष्यामीति जगाम | पुष्पयमकमिति प्रतिपादं वृन्ता- दुपरि पुष्पमिवावस्थितत्वात् ॥ १४ ॥ पादाऽदिमध्ययमकम् । घनगिरीन्द्रविलङ्घनशालिना वनगता वनजयुतिलोचना ! जनमता ददृशे जनकाऽऽत्मजा तरुमृगेण तरुस्थलशायिनी ॥१५॥ घनेत्यादि ---तरुमृगेण कपिना जनकात्मजा ददृशे दृष्टा । घनाः निरन्तराः ये गिरीन्द्राः मेघसदृशा वा तेषां यल्लङ्घनम् अतिक्रमणं तेन शाला युक्तेन कपिना | वनलता काननस्था वनजद्युतिलोचना पद्मस्येव कान्ति- र्ययोर्लोचनयोस्ते तथाविधे लोचने यस्याः । 'न क्रोडादिवः |४|१|५६ ।' इति ङीप्रतिषेधः । जनमता जनेनावबुद्धा पतिव्रतेयमिति | 'मनु अवबोधनें' इत्यस्य भूते निष्ठायां रूपम् । 'न लोकाव्ययनिष्ठाखलर्थतनाम् । २/३/६९/ इदि षष्ठीप्रतिषेधः । कर्तरि तृतीया | तस्यां च 'कर्तृकरणे कृता बहुलम् | २१ ३२ |' इति समासः । वर्तमाने तु 'मतिबुद्धिपूजार्थेभ्यश्च । ३ । २ । १८।' इति क्तप्रत्ययः । तस्य च वर्तमाने |२|३|६७ | इति षष्ठी । तस्यां च “क्तेन च पूजायाम् | २|२||१२|' इति समासप्रतिषेधः स्यात् । तरुस्थलशायिनी तरुले यत् स्थलं तत्रैव शयाना | सत्यपि शयने । तेन 'व्रते । ३।२। (८० ।' इति णिनिः । आदिमध्ययमकमिति पादानामादौ मध्ये च घन वन-जन - तरुशब्दानां यमितत्वांत् ॥ १५ ॥ विपथयमकम् ।

कान्ता सहमाना दुःखं च्युतभूषा । रामस्य वियुक्ता कान्ता सहमाना ॥ १६ ॥ कान्तेत्यादि-कान्ता कमनीया सहमाना वेदद्यमाना दुःखं वियोगजम् च्युत- भूषा च्युता भूषा भूषणानि यस्याः सा रामस्य कान्ता प्रिया वियुक्ता वियोगिनी १ अत्रार्या छन्दः, 'लक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे जः । पोऽयं नलघू वा प्रथमेऽर्द्धे नियतमार्यायाः । षष्ठे द्वितीयलात् परके नूले मुखलाच सयतिपदनियमः । चरमे पञ्चमके तस्मादिह भवति षष्ठो लः ॥' इति तलक्षणात् । २ अन्न | ' द्रुतविलम्बितं' वृत्तम् ।