पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २९२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः-- शादिभिर्निराकृतम् अनभिभूतं सत् । पादाद्यन्तयमकमिति पादस्यादावन्ते च यमिकत्वात् ॥ ११ ॥ मिथुनयमकम् । नश्यन्ति ददर्श वृन्दानि कपीन्द्रः । हारीण्यचलानां हारीण्यचलानाम् ॥ १२ ॥ नश्यन्तीत्यादि-अबलानां स्त्रीणाम् अबलानाम् अविद्यमानरक्षकाणां वृन्दानि समूहः । हारीणि हारवन्ति, हारीणि अवश्यं हरन्ति । आवश्यके णिनिः । चेतसार्थात् | नश्यन्ति पलायमानानि सन्ति कपीन्द्रो ददर्श । मिथुनयमक- मिति पदद्वयस्य चक्रवाकमिथुनवदवस्थितत्वात् ॥ १२ ॥ वृन्तयमकम् । नारीणामपनुनुदुर्न देहखेदा नारीणामलसलिला हिरण्यवाप्यः | नाऽऽरीणामनलपरीतपत्रपुष्पान् नारीणामभवदुपेत्य शर्म वृक्षान् । १३ नारीणामित्यादि--अरीणां संबन्धियो हिरण्यवाप्यः सुवर्णघटिता चाप्यः । नारीणां स्त्रीणाम् अग्नितापान्देहखेदान्नापनुनुदुः नापनीतवत्यः । कुतः। आरीणामलसलिला: । 'रीङ् स्रवणे ।' इत्यस्मादाङ्पूर्वात् 'स्वादय ओदितः” इति निष्ठानत्वम् । आरीणं गतममलं सलिलं यासु हिरण्यवापीष्विति । वृक्षांचोपेत्य गत्वा तासां शर्म सुखं नाभवत् न जातम् | अनलपरीतपत्रपुष्प- त्वाक्षाणाम् । आरीणां नारीणामिति योज्यम् । शत्रुसंबन्धिनीनामित्यर्थः । अरीणामिमा इति 'तस्येदम् ||४|३|१२०' इत्यण् । तदन्तात् 'टिड्ढाणञ्- द्ध्यसज्दनञ्मात्रच्तयप्ठठञ्ञ्ञ्करपः ।।४ | १ | १५ |' इति जीपू । अत्र वृक्षानुपेत्य स्थिताना मित्यध्याहर्तव्यम् । अन्यथासमानकर्तृकत्वात् पूर्वकाले क्त्वाप्रत्ययो न स्यात् । वृन्तयमकसिति प्रतिपदं पुष्पफलस्येक मूलेऽवस्थितत्वात् ॥ १३ ॥ पुष्पयमकम् | अथ लुलितपतन्त्रिमालं रुग्णासनचाणकेशरतमालम् । स वनं विविक्तमालं सीतां द्रष्टुं जगामालम् ॥ १४ ॥ अथेत्यादि ---दाहानन्तरं लुलिवानां चालतानां पतत्रिणां पक्षिणां माला [संह तिर्यस्मिन् तद्वनमशोकवनिकाख्यं स कपिर्जगाम । रुग्णा: भग्ना असनादयो लु १ अत्र 'वंशस्थं' वृत्तम् । 'जतौ तु वंशस्थमुदीरित २ अत्र 'तनुमध्या' छन्दः । 'त्यो तनुमंध्या' ३ अत्र 'प्रहर्षिणी' वृत्तम् । 'नौ नौ गस्त्रिदशयति: महर्षिणीयम् । इति तहक्षणात् जरौ' इति लक्षणात् । इति छन्दोऽनुशासनोक्केः ॥