पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सर्गः ] प्रसन्न काण्डम् | ( २९७ ) • अर्थालंकारस्तु दीपकरूपकादिभेदेनानेकप्रकारः । तत्र वाक्यार्थप्रकाशना - दीपकमुच्यते । तदादिमध्यान्तभेदात्रिविधमिति दर्शयन्नाह - आदिदीपकम् । गच्छन् से वारीण्यकिरत्पयोधेः कूलस्थितांस्तानि तरूनधुन्वन् । पुष्पाऽऽस्तरांस्तेऽङ्गसुखानतन्वँस्तान् किन्नरा मन्मथिनोऽध्यतिष्ठन् २३ ॥ गच्छन्नित्यादि- -- स हनूमान् वेगेन गच्छन् पयोधेवरीणि वेगजेन वायुना अकिरत् निक्षिप्तवान् । तानि वारीणि अधिक्षितानि कूलस्थितांस्त- · रूनधुन्वन् कम्पितवन्ति । 'धूञ् कम्पने' इति सौवादिकः । ते तरवः कम्पिताः पुष्पास्तरान् । पुष्पाणां प्रकरान् आस्तीर्यन्त इति 'ऋदोरप् ॥३॥ ३।५७|' इत्यप् ।अङ्गसुखान् मृदुस्पर्शत्वात् कायस्य सुख हेतूनतन्वन् विस्तारित - वन्तः । तान् पुष्पास्तरान् किन्नराः मन्मथिन: कामवन्तः अध्यतिष्ठन् अध्यासितवन्तः । 'अधिशीस्थासां कर्म | १ | ४|४६ |' इत्यधिकरणस्य कर्मसंज्ञा । आदिदीपकमिति क्रियापदत्यादौ श्रयमाणत्वात् । द्विविधं ह्यादिदीपकम् । एकतिङने कतिसहितं च । तत्र यत्पूर्व तदेकमप्यनेकार्थ- प्रकाशकम् । यथाह भामहः - 'मदो जनयति प्रीतिमानन्दं मानभङ्गुरम् । यत्प्रियासंगमोत्कण्ठामसह्यां मनसः शुचम् ॥' इति । यत्तु द्वितीय तत्स- सस्तवाक्यार्थप्रकाशं यथेदमेव । तत्र ह्युत्तरेषां वाक्यार्थानामानैत्र दीप- नात् । तस्मिन्नसति शेषाणामम्फुटत्वात् । पूर्वकं परित्यज्य द्वितीयस्य प्रद- र्शनं यत् तत्प्रतीपदीपकं नाम चतुर्थमस्तीति दर्शनार्थम् । तद्यथा- 'तृष्णां छिन्धि भज क्षमां जहि मंद पापे रति मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सवस्व विद्वजनान् | मान्यान्मानय विद्विषोऽन्यनुनय प्रख्यापय स्त्रान् गुणान् कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चोष्टतम् ।।' इति । शेषो यदत्र परस्परमसंबद्धमिति ॥ २३ ॥ अन्तदीपकम् । स गिरिं तरुखण्डमण्डितं समवाप्य त्वरया लतामृगः । स्मितदर्शित कार्यानिश्चयः कपिसैन्यैर्मुदितैरमण्डयत् ॥ २४ ॥ सगिरिमित्यादि ---सलतामृगो हनुमान प्रयोजककर्ता । गिरिमङ्गदादि- १ दीपकलक्षणं तु "सकृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् | सैव क्रियासु बीषु कारकस्थति दीपकम् । ” इति प्रकाश कोरणोक्तम्, अथ कथमिव सङ्गच्छत इति चिन्त्यम् । एवं परत्रापि ।