पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(( २९० ) भट्टिकाव्ये जयमङ्गलासमेते- समुद्रयमकम् । देहें लङ्का मतेश्वरा | देहेऽलंकामतेश्वरा ॥ ७ ॥ समिद्धशरणादप्तिा समिद्धशरणादीप्ता [ दशमः - समिद्धेत्यादि - - देहे अभ्यन्तरभागे समिद्धशरणा उज्ज्वलगृहा तत एव -- । तत्रान्यदे॒वस्य दीप्ता शोभावती लङ्का पुरी मतेश्वरा ज्ञातमहादेवा नामपि नगृह्यते । समिधो दधति हृतवन्तो वेति समिद्धा ऋषयः । पूर्व- स्मात् 'आतोऽनुपसर्गे कः । ३ । २ । ३ ।। इति कः । द्वितीयस्मात् 'अन्ये - ष्वपि दृश्यते । ३ । २ । १०१ ।' इति डः । अपिशब्दस्य सर्वोपाधिव्य- भिचारार्थत्वात् धात्वन्तरादपि भवति 'झयो होऽन्यतरस्याम् । ८ । ४ । ६२ ।। तपूर्ववर्णः । तान् गुणन्ति हिंसन्तीति । 'कृत्यल्युटो बहुलम् | ३॥ ३ । ११३ ।' इति कर्तरि ल्युट् । समिद्धशरणा राक्षसास्तान् दानमाना- भ्यामादीपयति प्रोत्साहयतीति किप् । समिद्धशरणादीप् । रावणः तेन ताय्यते इति तायतेः कर्मणि कारके विवक्षिते संपदादिदर्शनात् क्विप् । ‘वेरपृक्तस्य । ६ । १ । ६७ ।' इति 'लोपात्पूर्व लोपो व्योवलि | ६ | १ ॥ ६६ ।' इति लोपः । समिद्धशरणादीप्ता रावणस्य पालनीया | समिद्धशरणा- दीप्ता लङ्का देहे दुग्धा | अलं कामोऽस्येत्यलंकामः । तद्भावः अलंकामता । तस्यामलंकामतायां पर्याप्तेच्छायां ईश्वरा लङ्का । सर्वेच्छासम्पादनात् । यमितत्वात् पादद्वय योरधंद्वययोश्च समुद्रयमकमिति समुद्राकारेण संवत्सादृश्यम् ॥ ७ ॥ काञ्चीयमकम् । - पिशिताशिनामनुदिशं स्फुटतां स्फुटतां जगाम परिविह्वलता | ह्वलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता ॥ ८ ॥ पिशिताशिन।मित्यादि - पिशिताशिनां मांसाशिनां राक्षसानामनुदिशं दिशि दिशि | 'अव्ययीभावे शरत्प्रभृतिभ्यः । ५ । ४ । १०७ ।' इति टच । स्फुटतां पलायमानानां परिविह्नलता स्फुटतां स्पष्टतां जगाम - जनेन चेतरेण ह्वलता चलता महता शौर्यादिगुणयुक्तेनापि सता यच्च- परितं चेष्टितं बहुधा बहुप्रकारं तन्महत्त्वरहितं महत्तावि कलमाचरितम् अनुष्ठितं १ अत्र 'प्रमिताक्षरा' छन्दः । 'प्रमिताक्षरा सजससैः कथिता।' इति च तल्लक्षणम् ।