पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | पादमध्ययमकम् | न च कांचन काञ्चनसद्मचितिं न कपिः शिंखिना शिखिना समयौत् । न च न द्रवता द्रवता परितो हिमहानकृता न कृता क्व च न ॥५॥ (२८९ ) न चेत्यादि - काञ्चनसद्माचितिं सौवर्णगृहसंहात कांचन कांचिदपि शिखिना अग्निना शिखिना ज्वालावता न कपिर्न च समयौत् न च न मिश्रि- तवान् | अपि तु संश्लेषं नीतवान् । यौतेर्लुङि 'उतो वृद्धिलुकि हलि । ७७३१८९।। इति वृद्धिः। क्वच क्वचिन्नाम हिमहानकृता हिमहानस्य हिमापचयस्व कर्त्रा शिखिना । जहातेर्भावे ल्युट् । न च न द्रवता न च न विसर्पता अपि तु इतस्ततो गच्छता द्रवता द्रवभावः परितः न न कृता । किन्तु कृतैव । काञ्चनसद्मचितरित्यर्थात् । पादमध्ययमकमिति पादानां मध्ये यमि - तत्वात् ॥ ५ ॥ चक्रवालयमकम् । अवसितं हसितं प्रसितं मुदा विलसितं हसितं स्मरभासितम् | न समदाः प्रमदा हत सम्मदाः पुरहितं विहितं न समीहितम् ॥ ६॥ - अवसित मित्यादि – हसितं यत्प्रसितं संततप्रवृत्तम् । नित्यप्रमुदितत्वा- तत्रत्यजनस्य तदमिसङ्गमादवसितं अपगतम् । 'पोऽन्तकर्मणि' इत्यस्य 'यतिस्यतिमास्थामिति किति । ७।४।४० |' इतीत्वम् । मुदा हर्षे यद्विलतितं शृङ्गारविचेष्टितं लसितं लिष्टमनुबद्धमिति यावत् । स्मरभा- सितं मन्मथदीपितम् । हंसितम् अल्पीकृतम् । प्रमदाश्च स्त्रियः न समदाः सदर्पा न जाता: हतसंमदा ध्वस्तहर्षा: 'श्रमदसम्मदी हर्षे | ३।३ । ६८ । इति निपातनम् | यच्च पुरहितं पुरानुकूलं सभीहितं कर्तुरी- प्सितं तत्र विहितं नानुष्ठितमित्यर्थः चक्रवालय मकमिति मण्डलाकारेण यमितत्वात् । तथाहि । द्वयोर्द्वयोः पदयोरन्त्यवर्णानां नेमिवदवस्थितत्वात् मध्यस्य वर्णस्य विसदृशस्य नाभिवदिति । तथाचास्य लक्षणम् - 'पदाना मवसाने तु वाक्ये स्यात्तुल्यवर्णता । प्रतिपादं भवेद्यत्र चक्रवालं तदु- च्यते ॥” इति ॥ ६॥ १ अत्र ‘द्रुतविलम्बितं' छन्दः, तल्लक्षणं चोक्तं प्राकू | १९